________________
श्रीमलय- गिरीया नन्दीवृत्तिः
चालनीटान्त: उपनयश्च.४ १५
॥५७॥
SASHISAICOS ISLANDS
पश्चादपि तथैव स्मृतिपथमवतारयति स सम्पूर्णकुटसमानः, अत्र छिद्रकुटसमान एकान्तेनायोग्यः, शेषास्तु योग्याः, | यथोत्तरं च प्रधानाः प्रधानतरा इति ३॥ सम्प्रति चालनीदृष्टान्तभावना-चालनी लोकप्रसिद्धा यया कणिकादि |चाल्यते, यथा चालन्यामुदकं प्रक्षिप्यमाणं तत्क्षणादेवाधो गच्छति न पुनः कियन्तमपि कालमवतिष्ठते तथा यस्य सूत्रार्थः प्रदीयमानो यदैव कर्णे विशति तदैव विस्मृतिपथमुपैति स चालनीसमानः ४॥ तथा मुद्गशैलच्छिद्रकुटचालनीसमानशिष्यभेदप्रदर्शनार्थमुक्तं भाष्यकृता-“सेलेयछिड्डचालणि मिहो कहा सोउमुटियाणं तु । छिद्दाऽऽह तत्थ विट्ठो सुमरिंसु समरामि नेयाणिं ॥१॥ एगेण विसइ बीएण नीइ कण्णेण चालणी आह । धन्नोऽत्थ आह सेलो जं पविसइ नीइ वा तुझं ॥२॥” तत एषोऽपि चालनीसमानो न योग्यः चालनीप्रतिपक्षभूतं च वंशदलनिर्मापितं तापसभाजनं, ततो हि बिन्दुमात्रमपि जलंन स्रवति, उक्तं च-"तावसखउरकढिणयं चालणिपडिवक्ख नसबइ | दवपि ।" ततः तत्समानो योग्य इति ५॥ सम्प्रति परिपूर्णकदृष्टान्तो भाव्यते-परिपूर्णको नाम घृतक्षीरगालनक सुगृहाभिधचटिकाकुलालयो वा, तेन ह्याभीयों घृतं गालयन्ति. ततो यथा स परिपूर्णकः कचवरं धारयति घृतमुज्झति तथा शिष्योऽपि यो व्याख्यावाचनादौ दोषानभिगृह्णाति गुणांस्तु मुञ्चति स परिपूर्णकसमानः, स चायोग्यः,
तापसभाजनपरिपूर्णदृष्टान्तोपनयौ.५-६ ॥ ५७ ॥
| १ शैलेयच्छिद्रचालनीनां मिथः कथा श्रुत्वोत्थितानां तु । छिद्र आह तत्रोपविष्टोऽस्मार्ष स्मरामि नेदानीम् ॥१॥ एकेन विशति द्वितीयेन निर्गच्छति कर्णेन |चालनी आह । धन्योऽत्राह शैलेयो यत्प्रविशति निर्गच्छति वा तव ॥२॥२ तापसकमठकं चालनीप्रतिपक्षः न स्रवति द्रवमपि ।
For Personal & Private Use Only
lainelibrary.org
in Educon