________________
श्रीमलय
गिरीया नन्दीवृत्तिः
अलमनेनालीकप्रशंसावचनेन, ये हि शिखरसहस्राग्रभागोल्लिखितनभोमण्डलतलाः कुलाचलादयः शिखरिणः तेऽपि | अयोग्येमदाऽऽसारोपनिपातेन भिद्यमानाः शतशो भेदमुपयान्ति, किं पुनः स वराको यो मदेकधारोपनिपातमात्रमपि न मुद्गशैल
दृष्टान्तः.१ सहते ?, तदेवमुत्पासितो मुद्गशैलः समुज्वलितकोपानलोऽहङ्कारपुरस्सरं तमेवमवादीत्-भो नारदमहर्षे ! किमत्र तं द प्रति परोक्षे बहुजल्पितेन ?, शृणु मे भाषितमेकं-यदि तेन दुरात्मना ससाहोरात्रवर्षिणाऽपि मे तिलतुषसहस्रांशमात्रमपि भिद्यते ततोऽहं मुद्गशैलनामापि नोद्वहामि, ततः स पुरुषोऽमूनि मुद्गशैलवचांसि चेतस्यवधार्य कलहो-18 त्थानाय पुष्करावर्त्तमेघसमीपमुपागमत् , मुद्गशैलवचनानि सर्वाण्यपि सोत्कर्ष तस्य पुरतोऽन्ववादीत् , स च श्रुत्वा तानि वचनानि कोपमतीवाशिश्रियत्,सच खरपरुषाणि वचनानि वक्तुं प्रावर्तिष्ट, यथा-हा दुष्टःस वराकोऽनात्मज्ञो मामप्येवमधिक्षिपतीति, ततः सर्वादरेण सप्ताहोरात्रान् यावत् निरन्तरं मुशलप्रमाणधारोपनिपातेन वर्षितुमयतिष्ट, सप्ताहोरात्रनिरन्तरवृष्ट्या च सकलमपि विश्वम्भरामण्डलं जलप्लावितमासीत् , तत एकार्णवकल्पं विश्वमालोक्य चिन्तितवान्
हतः समूलघातं स वराक इति, ततः प्रतिनिवृत्तो वर्षात् , क्रमेण चापसृते जलसङ्घाते सहर्षे पुष्करावर्तो नारददा मेवमवादीत्-भो नारद ! स वराकः सम्प्रति कामवस्थामुपागतो वर्तते इति सहैव निरीक्ष्यतां, ततः तौ सहभूय | श।
मुद्गशैलस्य पार्श्वमगमतां, स च मुद्गशैलः पूर्व धूलीधूसरशरीरत्वात् मन्दं मन्दमकाशिष्ट, सम्प्रति तु तस्यापि धूलेरप-18 | नयनादधिकतरमवभासमानो वर्तते, ततः स चाकचिक्यमादधानो हसन्निव नारदपुष्करावत्तौं समागच्छन्तावेव-18|२६
॥५५॥
Jain Education
Lonal
For Personal & Private Use Only
Mainelibrary.org