________________
यथाशक्ति सम्पादयन्ति परेषामपि च यथायोगं बुद्धीर्भेदयन्ति ततो विधिसमासेवकाः कल्याणमिव ते महदकल्याणमासादयन्ति, उक्तं च - " आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ १ ॥ ततोऽयोग्येभ्यः प्रकृताध्ययनप्रदाने तेषामनर्थोपनिपातः, स च वस्तुतो दातृकृत एवेति कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः । तत्राधिकृतगाथायां प्रथममयोग्यशिष्यविषये मुद्गरौलघनदृष्टान्त उपात्तः, स च काल्पनिकः, मुद्रशैलघनयोवक्ष्यमाणप्रकारोऽहङ्कारादिर्न सम्भवति, तयोरचेतनत्वात्, केवलं शिष्यमतिवितानाय तौ तथा कल्पयित्वा दृष्टान्तत्वेनोपात्तौ न चैतदनुपपन्नं, आर्षेऽपि काल्पनिकदृष्टान्तस्याभ्यनुज्ञानात्, यदाह भगवान् भद्रबाहुखामी - "चरियं च कप्पियं वा आहरणं दुविहमेव पन्नत्तं । अत्थस्स साहणट्ठा इंधणमिव ओयणट्ठाए ॥ १ ॥” ततो नानुपपन्नः शैलघनदृष्टान्तः, तद्भावना चेयं - इह क्वचिद् गोष्पदायामरण्यान्यां मुद्द्रप्रमाणः क्षितिधरो मुद्रशैलाभिधो वर्त्तते, इतश्च जम्बूद्वीपप्रमाणः पुष्करावर्त्ताभिधानो महामेघः, तत्र महर्षिनारदस्थानीयः कोऽपि कलहाभिनन्दी तयोः कलहमाधातुं प्रथमतो मुद्रशैलस्योपकण्ठमगमत् गत्वा च तमेवमभाषिष्ट - भो मुद्रशैल ! क्वचिदवसरे महापुरुषसदसि जलेन भेत्तुमशक्यो मुद्गशैल इति मया त्वगुणवर्णनायां क्रियमाणायां नामापि तव पुष्करावर्त्तो न सहते स्म, यथा
१ आमे घटे निहितं यथा जलं तं घटं विनाशयति । इति सिद्धान्तरहस्यमल्पाधारं विनाशयति ॥ १ ॥ २ चरितं च कल्पितं वा आहरणं द्विविवमेव प्रज्ञप्तम् । अर्थस्य साधनार्थ इन्धनमिवौदनार्थम् ॥
Jain Education International
For Personal & Private Use Only
५
अयोग्ये
मुद्गशैलदृष्टान्तः. १
१०
१३
www.jainelibrary.org