SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ BAGGRESAIANAS ममाषिष्ट-समागच्छत २ खागतं युष्माकम् ?, अहो कृतकल्याणा वयं यदतर्कितोपनीतकाञ्चनवृष्टिरिव युष्मदर्शन है मकाण्ड एव मन्मनोमोदाधायि संवृत्तमिति, तत एवमुक्ते भ्रष्टप्रतिज्ञमात्मानमवबुध्य लजावनतकन्धराशिरोनयनः | तस्योप| पुष्करावर्तो यत्किञ्चिदाभाष्य खस्थानं गतः, एष दृष्टान्तः, उपनयस्त्वयम्-कोऽपि शिष्यो मुद्गशैलसमानधर्मा निरन्तरं 8 नया. | यत्नतः पाठ्यमानोऽपि पदमप्येकं भावतो नावगाहते, ततोऽयोग्योऽयमितिकृत्वा वाचार्यैरुपेक्षितः, तं च तथोपे-है। ६क्षितमवबुध्य कोऽप्यन्य आचार्योऽभिनवतरुणिमावेगवशोज्जृम्भितमहाबलपराक्रमः अत एवागणितव्याख्याविधि-१५ परिश्रमो यौवनिकमदवशतोऽपरिभावितगुणागुणविवेको वक्तुमेवं प्रवृत्तो-यथैनमहं पाठयिष्यामि, पठति च लोकानां | पुरतः सुभाषितम्-“आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव, कुतीर्थेनावतारिताः॥१॥"] ६ ततः तं सर्वादरेण पाठयितुं लग्नः, स च मुद्गशैल इव दृढप्रतिज्ञो न भावतः पदमप्येकं खचेतसि परिणमयति, ततः खिन्नशक्तिराचार्यो भ्रष्टप्रतिज्ञमात्मानं जानानो लज्जितो यत्किमप्युत्तरं कृत्वा तत्स्थानादपसृत्य गतः, ततः एवं-12 है विधाय नेदमध्ययनं दातव्यम् , यतो न खलु वन्ध्या गौः शिरःशृङ्गवदनपृष्ठपुच्छोदरादौ सस्नेहं स्पृष्टाऽपि सती दुग्ध प्रदायिनी भवति, तथाखाभाव्याद्, एवमेषोऽपि सम्यक् पाठ्यमानोऽपि पदमप्येकं नावगाहते, ततो न तस्य तावदुपकारः, आस्तां तस्योपकाराभावः प्रत्युत आचार्ये सूत्रे चापकीर्तिरुपजायते, यथा न सम्यक्कौशलमाचार्यस्य व्याख्यायामिदं वाऽध्ययनं न समीचीनं, कथमयमन्यथा नावबुध्यते इति?, अपि च-तथाविधकुशिष्यपाठने तस्या Join Educ a tional For Personal & Private Use Only T w w.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy