SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मुकुलं-विकसितं वरं-प्रधानं कमलम्-अम्भोजं तस्य यो गर्भः तत्सदृशवर्णान्-तत्समदेहकान्तीन् , तथा 'भव्यजनहदयदयितान्' भन्यजनहृदयवल्लभान् , तथा 'दयागुणविशारदान्' सकलजगजन्तुदयाविधिविधापनयोरतीव कुशलान्, तथा धिया राजन्ते-शोभन्ते इति धीरास्तान् । तथा 'अर्द्धभरतप्रधानान्' तत्कालापेक्षया सकलार्द्धभरतमध्ये युगप्रधानान् तथा 'सुविज्ञातबहुविधखाध्यायप्रधानान्' बहुविध आचारादिभेदात् खाध्यायः ततः सुविज्ञातो बहुविधः खा-2 ध्यायो यैस्ते तथोक्ताः तेषां मध्ये प्रधानान्-उत्तमान् , तथा अनुयोजिताः-प्रवर्त्तिता यथोचिते वैयावृत्त्यादौ वरवृषभाःसुसाधवो यैस्ते तथोक्तास्तान् , तथा नागेन्द्रकुलवंशस्य नन्दिकरान् , प्रमोदकरानित्यर्थः। तथा 'जगद्भूतहितप्रगल्भान्' अनेकधासकलसत्त्वहितोपदेशदानसमर्थान् भवभयव्यवच्छेदकरान' सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् , 'नागार्जुनऋषीणां' नागार्जुनमहर्षिसूरीणां शिष्यान् , भूतदिन्ननामकान् आचार्यानहं वन्दे । सूत्रे च भूतदिन्नश-13 ब्दात् मकारोऽलाक्षणिकः ॥ सुमुणियनिच्चानिच्चं सुमुणियसुत्तत्थधारयं वंदे । सम्भावुब्भावणयातत्थं लोहिच्चणामाणं ॥ ४०॥ सुष्टु-यथावस्थिततया मुणितं-ज्ञातं, 'जो जाणमुणाविति प्राकृतलक्षणाजानातेर्मुण आदेशः, नित्यानित्यं । सामर्थ्याद्वस्त्विति गम्यते, येन स सुज्ञातनित्यानित्यः तं, यथा च वस्तुनो नित्यानित्यता तथा धर्मसंग्रहणिटीकायां सविस्तरमभिहितमिति नेह भूयोऽभिधीयते, मा भूदन्थगौरवमितिकृत्वा, एतेन न्यायवेदिता तस्यावेदिता, तथा Jain Educ a tional For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy