________________
श्रीमलय गिरीया नन्दीवृत्तिः
॥५३॥
सुष्टु-अतिशयेन ज्ञातं यत्सूत्रमर्यश्च तस्य धारकम् , अनेन सदैवाभ्यस्तसूत्रार्थता तस्यावेद्यते, तथा सन्तो-यथाव- स्थविरावस्थिता विद्यमाना भावाः-सद्भावाः तेषामुद्भावना-प्रकाशनं सद्भावोद्भावना तस्यां तथ्यम्-अविसंवादिनं सद्भावोद-ालिका. गा.
४०-४१ भावनातथ्यम् , एतेन तस्य सम्यक्प्ररूपकत्वमुक्तम् , इत्यम्भूतं भूतदिन्नाचार्यशिष्यं लोहित्यनामानमहं वन्दे ॥ अत्थमहत्थक्खाणिं सुसमणवक्खाणकहणनिव्वाणि। पयईइ महुरवाणिं पयओ पणमामि दूसगणिं ॥४१॥
तत्र भाषाभिधेया अर्था विभाषावार्तिकाभिधेया महार्थाः तेषामर्थमहार्थानां खानिरिव अर्थमहार्थखानिः तं, एतेन , भाषाविभाषावार्तिकरूपानुयोगविधावतीव पटीयस्त्वमावेदयति, तथा सुश्रमणानां-विशिष्टमूलोत्तरगुणकलितसंयताना-13 मपूर्वशास्त्रार्थव्याख्याने पृष्टार्थकथने च निर्वृतिः-समाधिर्यस्य स तथा तं, तथा प्रकृत्या-खभावेन मधुरवाचं-मधुर-13 गिरं न शिष्यगतमनाप्रमादादिरूपकोपहेतुसम्पत्तावपि कोपोदयवशतो निष्ठुरभाषणम् , एतेन शिष्यानुवर्त्तनायामतिकौशलमाह, तथाहि-गुणसम्पद्योग्यान् कथञ्चित् प्रमादिनोऽपि दृष्ट्वा धर्मानुगतैः मधुरवचोभिराचार्यस्तान् शिक्षयेत् यथा तेषां मनःप्रसादमेव विशिष्टगुणप्रतिपत्त्यभिमुखमश्नुते, न कोपं प्रतिपन्नगुणभ्रंशकारणमिति, उक्तं च-18 “धम्ममइएहिं अइसुन्दरेहि कारणगुणोवणीएहिं । पल्हायन्तो य मणं सीसं चोएइ आयरिओ ॥१॥" तत इत्थं
१ धर्ममयैरतिसुन्दरैः गुणकारणोपनीतैः । प्रहादयंश्च मनः शिष्यं नोदयत्याचार्यः ॥१॥
dain Educat
For Personal & Private Use Only
Y
anelibrary.org