SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 'ततः' स्कन्दिलाचार्यानन्तरं तच्छिष्यान् हिमवतो-हिमवन्नामकान् 'हिमवन्महाविक्रमान् हिमवत इव महान् हा विक्रमो-विहारक्रमेण प्रतिक्षेत्रव्याप्तिरूपो येषां ते तथा तान्, 'धिइपरक्कममणंते' इति अनन्ततिपराक्रमान प्राक-५ तशैल्याऽनन्तशब्दस्यान्यथोपन्यासःसूत्रे,अनन्तः-अपरिमितो धृतिप्रधानः पराक्रमः कर्मशत्रून् प्रति येषां ते तथाविधास्तान् , तथा-'सज्झायमणंतधरे'त्ति अत्रापि प्राकृतशैल्याऽनन्तशब्दस्य परनिपातो मकारस्त्वलाक्षणिकः, तत एवं | तात्त्विको निर्देशः 'अनन्तस्वाध्यायधरान्' तत्रानन्तगमपर्यायात्मकत्वादनन्तं सूत्रं तस्य खाध्यायं धरन्तीति धराः अनन्तखाध्यायस्य धरा अनन्तखाध्यायधरास्तान् ॥ भूयोऽपि हिमवदाचार्याणां स्तुतिमाह कालियसुय अणुओगस्स धारए धारए य पुव्वाणं । हिमवंतखमासमणे वंदे णागज्जुणायरिए ॥३५॥ ___ कालिकश्रुतानुयोगस्य धारकान् 'धारकांश्च पूर्वाणाम्' उत्पादादीनां धारकान् हिमवतः क्षमाश्रमणान् वन्दे । ततः। ४ तच्छिष्यान् वन्दे नागार्जुनाचार्यान् , कथम्भूतानित्याह मिउमदवसंपन्ने अणुपुबी वायगत्तणं पत्ते । ओहसुयसमायारे नागज्जुणवायए वंदे ॥ ३६॥ 'मृदुमार्दवसम्पन्नान्' मृदु-कोमलं मनोज्ञं सकलभव्यजनमनःसन्तोषहेतुत्वात् यत् माईवं तेन सम्पन्नान् , माईवं चोपलक्षणं तेन क्षान्तिमार्दवार्जवसन्तोषसम्पन्नानिति द्रष्टव्यम्, तथा 'आनुपूर्व्या वयःपर्यायपरिपाट्या वाचकत्वं १ सदृशपाठाः Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy