SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ ५१ ॥ लाचार्यान् सिंहवाचकसूरिशिष्यान् बहुषु नगरेषु निर्गतं - प्रसृतं यशो येषां ते बहुनगरनिर्गतयशसस्तान् वन्दे । अथायमनुयोगोऽर्द्धभरते व्याप्रियमाणः कथं तेषां स्कन्दिलनानामाचार्याणां सम्बन्धी ?, उच्यते, इह स्कन्दिलाचार्यप्रतिपत्तौ दुष्पमसुषमाप्रतिपन्थिन्याः तद्गतसकलशुभभावग्रसनैकसमारम्भायाः दुष्षमायाः साहायकमाधातुं परमसुहदिव द्वादशवार्षिकं दुर्भिक्षमुदपादि, तत्र चैवंरूपे महति दुर्भिक्षे भिक्षालाभस्यासम्भवादवसीदतां साधूनामपूर्वार्थग्रहणपूर्वार्थ स्मरणश्रुतपरावर्त्तनानि मूलत एवापजग्मुः श्रुतमपि चातिशायि प्रभूतमनेशत्, अङ्गोपाङ्गादिगतमपि भावतो विप्रनष्टम्, तत्परावर्त्तनादेरभावात्, ततो द्वादशवर्षानन्तरमुत्पन्ने सुभिक्षे मथुरापुरि स्कन्दिलाचार्यप्रमुखश्रमणसङ्घनैकत्र मिलित्वा यो यत्स्मरति स तत्कथयतीत्येवं कालिकश्रुतं पूर्वगतं च किञ्चिदनुसन्धाय घटितं यतश्चैतन्मथुरापुरि सङ्घटितमत इयं वाचना माथुरीत्यभिधीयते सा च तत्कालयुग प्रधानानां स्कन्दिलाचार्याणामभिमता तैरेव चार्थतः शिष्यबुद्धिं प्रापितेति तदनुयोगः तेषामाचार्याणां सम्बन्धीति व्यपदिश्यते । अपरे पुनरेवमाहुः - न किमपि श्रुतं दुर्भिक्षवशात् अनेशत्, किन्तु तावदेव तत्काले श्रुतमनुवर्त्तते स्म, केवलमन्ये प्रधाना येऽनुयोगधराः ते | सर्वेऽपि दुर्भिक्ष का लकवलीकृताः, एक एव स्कन्दिलसूरयो विद्यन्ते स्म ततस्तैर्दुर्भिक्षापगमे मथुरापुरि पुनरनुयोगः प्रवर्त्तित इति वाचना माथुरीति व्यपदिश्यते, अनुयोगश्च तेषामाचार्याणामिति ॥ - तत्तो हिमवन्तमहंतविक्कमे धिइपरकममणते । सज्झायमणंतधरे हिमवंते वंदिमो सिरसा ॥ ३४ ॥ Jain Education International For Personal & Private Use Only स्थविरावलिका. गा. ३१-३४ १५ २० ॥ ५१ ॥ २५ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy