SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पुनश्च तेनास्य भेदः कृतः, ततश्च 'वोसिरणं' ति मुहुर्मुहुः पुरीषोत्सर्गं विदधाति, तत्र च षट्कायविराधना, तद्वेगधरणे च मरणं, 'दवविरोहो'त्ति द्रवेण - काञ्जिकेन सह विरोधो भवति, साधोः प्रायस्तत्संव्यवहारात्, यद्वा 'दवविरोहो' त्ति द्रवम्उदकं तेन निर्लेपनं करोति सागारिकपुरतः, अथ न करोत्युड्डाहः - प्रवचनहीला भवति, अथवा द्रवविरोधो विनाशो, यतस्तृषितः संस्तदेव पिबति । एवं व्रजे गच्छत आत्मविराधना प्रवचनोपघातश्च स्यात्, गमनविधातश्च नितरां स्यात् । उक्तं व्रजद्वारम् अथ ग्रामद्वारम् - खद्धादाणिअगामे संखडि आइन्न खड गेलने । सण्णी दाणे भद्दे अप्पत्तमहानिनादेसु ॥ ८६ ॥ खद्धादानिकग्रामः–समृद्धग्रामस्तस्मिन्नुद्वर्त्तनं करोति, अप्राप्तां वेलां च प्रतिपालयति, क्षीरग्रहणं करोति, तत्र च त एव | दोषाः “वोसिरणे छक्काया धरणे मरणं दवविरोहो" । उक्तं ग्रामद्वारम् अथ संखडिद्वारं, तत्राह - 'संखडि आइन्नगेलणं' ति संखडी प्रकरणं तदर्थमुद्वर्त्तते, अप्राप्तां च वेलां प्रतिपालयति, तत्र च 'आइण्ण'त्ति आकीर्ण-संबाधनं स्त्रीस्पर्शादिदोषाः, तथा 'खद्धगेलण' त्ति खद्धं प्रभूतमुच्यते, ततश्च भूरिभक्षणे मान्द्यं स्यात्, त एव च दोषाः “वोसिरणे छक्काया धरणे मरणं | दवविरोहो" । उक्तं संखडिद्वारम् अथ सञ्ज्ञिद्वारम् - 'सन्निति सञ्ज्ञिनं श्रुत्वा उद्वर्त्तनं करोति, अप्राप्तां च वेलां प्रतिपालयति, तत्र च त एव दोषा वोसिरणादयः । उक्तं सञ्ज्ञिद्वारम् इदानीं दानश्रावकद्वारं, तत्रापि “उद्यत्तणमप्पत्तं च पडिच्छे"त्ति पूर्ववत्, ततश्चासौ दानश्रावकः प्रभूतं घृतं ददाति तत्रापि त एव दोषा वोसिरणादयः । उक्तं दानद्वारम्, अथ भद्रकद्वारं - 'भद्दग' त्ति कश्चित्स्वभावत एव साधुभद्रकः स्यात् तत्समीपगमनार्थमुद्वर्त्तनं करोति, अप्राप्तां च वेलां Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy