________________
श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः
11 84 11
एस गमो पंचण्हवि होइ नियाइण गिलाणपडियरणे ।
फासुअकरणनिकायण कहण पडिक्कामणागमणं ॥ ३९ ॥ ( भा० )
'एष गमः' एष परिचरणविधिः 'पंचण्हवि' पञ्चानामपि, केषामत आह- 'नियाईणं' आदिशब्दात् पासत्थोसण्णकुसीलसंसत्ताणं, 'गिलाणपडिअरणे'त्ति ग्लानप्रतिचरणे एष विधिः - 'फासुअकरण'त्ति यदुत प्रासुकेन भक्तादिना प्रतिचरणं कार्य, 'निकायण'त्ति निकाचनं करोति, यदुत दृढीभूतेन त्वया यदहं ब्रवीमि तत्कर्त्तव्यम्, 'कहण'त्ति धर्मकथाया, यद्वा 'कहण'त्ति लोकस्य कथयति किमस्य प्रव्रजितस्य शक्यतेऽशुद्धेन कर्त्तम् ? । 'पडिकामण'त्ति यद्यसौ ग्लानः प्रतिक्रामति तस्मात्स्थानान्निवर्त्तत इतियावत् ततः स्थानात् 'गमण' त्ति तं ग्लानं गृहीत्वा गमनं करोति ॥ अथ यदुक्तं 'पंचण्हवि होति जयणाए 'त्ति अत्रापिशब्द आस्ते तदर्थमादर्शयन्नाह
संभावणेsविसो देउलिअखरंटयजयण उवएसो ।
अविसेस निण्हगाणवि न एस अम्हं तओ गमणं ॥ ४० ॥ ( भा० )
संभावनेऽपिशब्दः, किं संभावयति ? - 'देउलिअ 'त्ति देवकुलपरिपालका वेपमात्रधारिणस्तेऽपि ग्लानाः सन्तः परिश्वरणीयाः, 'खरंटण'त्ति तेषां देवकुलिकानां खिंसनां करोति, यदुत धर्मे उद्यमं कुरुत, 'जयण'त्ति यतनया कर्त्तव्यं यथा संयमलाञ्छना न स्यात् । 'उवएसो 'त्ति उपदेशं च क्रियाविषयं ददाति । 'अविसेस'त्ति, न यस्मिन् विषये साधुनिह्रावकविशेषो ज्ञायते तस्मिन् 'निण्हगाणंपि' निण्हावकानामपि यतनया परिचरणं करोति । अथ निह्नवकग्लान एवं ब्रूयात् 'न
Jain Educational
For Personal & Private Use Only
वैयावृत्यविधिः भा. ३७-४०
॥ ४५ ॥
www.jainelibrary.org