SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नस्यापि गण्डक वाचार'त्ति यसर्थ, ते चामी नन्दा तव्यं, उक्तमुपकरणं, 'सउण'त्ति शकुनेषु सत्सु गन्तव्यं, ते चामी 'नन्दीतूर मित्यादयः, अपशकुनेषु न गन्तव्यं, ते चैतेमइलकुचेलादयः, उक्तं शकुनद्वारं, 'वावार'त्ति यद्यसौ वैद्यो भुले एकलशाटको वा छिन्दन् किञ्चिदास्ते भिन्दन्वा ततो न प्रष्टव्यः, अथ ग्लानस्यापि गण्डकादि छेत्तव्यं ततोऽस्मिन्नैव प्रष्टव्यः, उक्तो व्यापारः, 'ठाण'त्ति यद्युत्कुरुटिकादौ तुषराश्यादौ स्थितस्ततो न प्रष्टव्यः, किं तर्हि १, शुचिप्रदेशे स्थित इति, उक्तं स्थानं, 'उवएस'त्ति एवमसौ यतनया पृष्टो यमुपदेशं ददाति-द्रव्यतः क्षेत्रतः कालतो भावतश्च सोऽवधारणीयः, तत्र द्रव्यतः शाल्योदनं पारिहट्टं च खीरं क्षेत्रतो निर्वाता वसतिः कालतः पौरुष्यां देयं भावतो नास्य प्रतिकूलव्यवहारिभिर्भाव्यं, उक्त उपदेशः, अथ स वैद्य एवं ब्रूयात्-पश्यामि तावत्तमिति, ततः स वैद्यस्तत्समीपमानीयते, न च ग्लानस्तत्र नेयः, किं कारणं?, वैद्यसमीपे नीयमाने उत्क्षिप्ते लोकः कदाचिदेवं ब्रूयात्-यथा नूनमयं मृत इत्यपशकुनः, मूर्छा वा भवेद्विपत्तिर्वा वैद्यगृहे स्यादिति, आगच्छति च वैद्ये किं कर्त्तव्यं ?, गन्धोदकादिभिर्गन्धवासाः सन्निहिताः क्रियन्ते, तद्दानार्थमुदकमृत्तिकया विलेपनादि क्रियते । वैद्ये चागच्छति सूरिणा किं कर्त्तव्यमित्याह-'उछमणुढे अ जे दोसत्ति यद्यसावाचार्यों वैद्यस्यागतस्योत्तिष्ठति ततो लाघवदोषः, अथू नाभ्युद्गतिमादत्ते ततः स्तब्ध इतिकृत्वा कोपं गृहीत्वा प्रतिकूलः स्यात्, तस्मादेतद्दोषपरिजिहीर्षयाऽनागतमेवोत्थाय प्राङ्गणे परिष्वष्कमाणस्तिष्ठतीति । उक्तमुत्थितानुत्थितद्वारं, कियन्तं पुनः कालं तेन साधुना तस्य ग्लानस्य परिचरणं कर्त्तव्यमित्याह__पढमावियारजोगं नाउं गच्छे बिइज्जए दिण्णे । एमेव अण्णसंभोइयाण अण्णाइ वसहीए ॥ ७१॥ 'पढमत्ति यावत् प्रथमालिकां करोति तां चात्मनः स्वयमेवानयितुं समर्थः संवृत्तः, वियारजोग्ग'ति बहिर्भूमिगमनयोग्यो dain Education n ational For Personal & Private Use Only w.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy