________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ ४० ॥
Jain Education
प्रेपयन्ति, अथ तत्र कश्चिद् ग्लानस्तत एवं ब्रवीति - अहमेनं ग्लानं परिचरामीति, ततस्तेऽप्याहुः - विद्यन्त एव परिचारकाः, एवमभिधाय 'विसज्जण 'न्ति तं साधुं 'विसर्जयन्ति' प्रेषयन्ति वयमेव भलिष्याम इति । अथ न विसर्जयन्ति, एतच्च ब्रुवते - | सर्वमत्र ग्लानप्रायोग्यमौषधादि लभ्यते, किन्तु तत्संयोजनां न जानीमः, ततः स उपदेशं ददाति - इदमौषधमनेन संयोज्य देयमिति, अथ त एवं ब्रुवते - औषधान्येवात्र वयं न लभामहे ततः स साधुर्दापयत्यौषधानि याचयति वा पाठान्तरं एवमसावौषधानि दापयित्वा व्रजति, अथ त एवमाहुः - औषधसंयोजनां न जानीमो न च लभामहे, तत एष साधुरौषधानि याचित्वा संयोज्य ग्लानाय दत्त्वा मनाक् प्रशान्ते व्याधौ सति व्रजति । अथ त एवमाहुर्गच्छन्तं साधुम् -
पुणरवि अयं खुभिज्जा अयाणगा मो स वा भणिज्ज संचिक्खे । उभओऽवि अयाणंता वेज्जं पुच्छंति जयण ए ॥ ६९ ॥
पुनरप्ययं व्याधिः क्षोभं यायात् प्रकुप्येत् वयं च न जानीम उपशमयितुं, स च ग्लान एवं ब्रूयात्-त्वया तिष्ठता अहमचिरात्प्रगुणीभवामि, ततः 'संचिक्खे'त्ति संतिष्ठति । अथोभावपि तावागन्तुकवास्तव्यौ न जानीतः क्रियां कर्त्तुं तत उभावपि अजानन्तौ वैद्यं पृच्छतः, कथं ? - 'यतनया' अनन्तरगाथावक्ष्यमाणयेति । सां चैवम् —
गमणे पमाण उवगरण सउण वावार ठाण उवएसो । आणण गंधुदगाई उट्टमणुट्ठे अ जे दोसा ॥ ७० ॥ यदि ग्लानो गन्तुं पारयति तत उत्सर्गेण स एव नीयते, अथ न पारयति ततोऽन्ये साधवो वैद्यसकाशे गमनं कुर्वन्ति, 'पमाणे 'ति कियत्प्रमाणैर्गन्तव्यं १, तत्रैकेन न गन्तव्यं यमदण्डपरिकल्पनात्, न द्वौ यमपुरुषपरिकल्पनात्, न चत्वारो वाहीकपरिकल्पनात्, अतस्त्रिपञ्चसप्तभिर्गन्तव्यं, उक्तं प्रमाणं, 'उवगरणे'त्ति शुक्लवासोभिर्यातव्यं, न कृष्णमलिनादिभिर्या -
For Personal & Private Use Only
पृच्छा नि. ६६ प्रवेशः
नि. ६७ ग्लानवैयावृत्त्यं
नि. ६८-७०
1180 11
www.jainelibrary.org