SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ ३९ ॥ यथा ततो निर्गत्यैतेऽधुनाऽमुकत्र तिष्ठन्तीति, एतदुक्तं भवति - मासकल्पपरिसमाप्तौ ते कदाचित्तत्रैवायाताः स्युः, ततश्चैतेषां साधूनां पश्यत्ता - संदर्शनं भवतीति तत्रैव कार्यपरिसमाप्तिः स्यात्, तथा कदाचित्तत्र संखडी भवति, ततश्च भक्तं गृहीत्वा व्रजतः कालक्षेपो (न) भवति, शीघ्रं चाभीष्टं ग्रामं प्राप्नोति, तत्र वा प्रविष्टस्य श्राद्धः - श्रावकः कश्चिद्भवति, तद्गृहात्पर्युषितभक्तमादाय व्रजति । एते प्रविष्टस्यैहिका गुणाः, अथेतरे 'परलोइआ' इति द्वारपरामर्शः, 'गिलाण'त्ति कदाचितंत्र प्रविष्ट इदं | शृणुयात् यदुतात्र ग्लान आस्ते, ततश्च परिपालनं कार्य, परिपालने च कथं न पारलौकिका गुणा इति, 'जो गिलाणं पडियरइ सेमं पडिअरति, जो मं पडिअरइ सो गिलाणं पडियरति'त्ति वचनप्रामाण्यात्, कदाचिद्वा तत्र चैत्यायतनं भवेत् तद्वन्दने | पुण्यावाप्तिः स्यात्, वादी वा तत्पराजयश्च, प्रत्यनीको वा साध्वादेस्तत्र स्यात् तद्दर्शनाच्चासावुपशमं यायात्, एवंलब्धिसंपन्नत्वात् । उक्तमैहिकपारलौकिकगुणद्वारम्, अथ पृच्छाद्वारं, तत्र विधिपृच्छा अविधिपृच्छा च, अविधिपृच्छाद्वारमाहअविही पुच्छा अस्थित्थ संजया नत्थि तत्थ समणीओ । समणीसु अता नत्थी संका य किसोरवडवा ॥ ६४ ॥ अविधिपृच्छेयं, यदुतास्त्यत्र संयताः ?, ततोऽसौ पृच्छय एतां विशेषविषयां पृच्छां श्रुत्वाऽऽह - नास्त्यत्र संयताः, तत्र च श्रमण्यो विद्यन्ते तेन च ता न कथिताः, विशेषप्रश्नाकरणात्, 'समणीसु यत्ति अथ श्रमणीः पृच्छति ततोऽसावाह-न सन्त्यत्र ताः, तत्र च श्रमणाः सन्तीति प्राग्वत् । शङ्का च श्रमणीपृच्छायां स्यात्, 'किशोरवडवान्यायात् ॥ ससु चरिअकामो संका चारी य होइ सड्डीसुं । चेइयघरं व नस्थिह तम्हा उ विहीर पुच्छेजा ॥ ६५ ॥ अथ श्रावकान् पृच्छति ततः परो विकल्पयति-चरितुकामोऽयं - भक्षयितुकामः, अथ 'सड्डीसु'त्ति श्राविकाविषयायां Jain Education metasonal For Personal & Private Use Only ग्रामप्रवेशः नि.६२-६३ पृच्छा नि. ६४-६५ ॥ ३९ ॥ www.ainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy