________________
श्री ओघ - नियुक्तिः द्रोणीया
वृत्तिः
॥ ३८ ॥
Jain Education
तस्मात् 'सदा' अजस्रं विशुद्धं परिणाममिच्छता सुविहितेन किं कर्त्तव्यं ? - हिंसायतनानि सर्वाणि वर्जनीयानि
प्रयत्नतः ॥ तथा च
वज्जेमित्ति परिणओ संपत्तीए विमुच्चई वेरा । अविहितोऽवि न मुञ्चह किलिट्टभावोत्ति वा तस्स ॥ ६० ॥ वर्जयाम्यहं प्राणिवधादीन्येवंपरिणतः सन् संप्राप्तावपि, कस्य ? - अतिपातस्य - प्राणिप्राणविनाशस्येत्युपरिष्टात्संबन्धः, तथाऽपि विमुच्यते 'वैरात्' कर्मसंबन्धात् । यस्तु पुनः क्लिष्टपरिणामः सोऽव्यापादयन्नपि न मुच्यते वैरात् ॥ तदेवं गच्छतस्तस्य षङ्काययतनादिको विधिरुक्तः, स इदानीं गच्छन् ग्रामादौ प्रविशति, तत्र का सामाचारी ?, तद्दर्शनार्थमुपक्रमतेपढमबिया गिलाणे तइए सण्णी चउत्थ साहम्मी । पंचमियंमि अ वसही छट्ठे ठाणहिओ होइ ॥ ६१ ॥ प्रथमद्वारे द्वितीयद्वारे च 'गिलाणेत्ति ग्लानविषया यतना वक्तव्या, तृतीये द्वारे संज्ञी - श्रावको वक्तव्यः, चतुर्थे द्वारे साधर्मिकः - साधुर्वक्तव्यः, पञ्चमे द्वारे वसतिर्वक्तव्या, षष्ठे द्वारे वर्षाकालप्रतिघातात्स्थानस्थितो भवति । आह-तृतीयद्वारे षडर्थाधिकारा भविष्यन्ति, तद्यथा - " वइअग्गामे संखडि सण्णी दाणे अभद्दे अ"त्ति, ततश्च किमिति संज्ञिन एव केवलस्य ग्रहणमकारि ?, उच्यते, संज्ञिनोऽतिरिक्तो विधिर्वक्ष्यमाणो भविष्यति अस्यार्थस्य ज्ञापनार्थ संज्ञिग्रहणमेवाकरोत्, अथवा तुलादण्डमध्यग्रहणन्यायेन मध्यग्रहणे शेषाण्यपि गृहीतान्येव द्रष्टव्यानि, आह-मध्यमेवैतन्न भवति, यतः षडमूनि द्वाराणि, उच्यन्ते, नैतदेवं यतः सप्तमं चशब्दाक्षिप्तं महानिनादेति द्वारं भविष्यति, संज्ञिग्रहणेन मध्यमेव गृहीतमितीयं द्वारगाथा । नन्वस्यातित्वरिताचार्यकार्यप्रसृतत्वात्कोऽवसरो ग्रामादिप्रवेशनेन ?, उच्यते, तत्प्रवेशेऽधिकतरगुणदर्शनात्, तथा चाह
For Personal & Private Use Only
विधिनिषेधयोरने
कान्तता
नि. ५७-६० ग्रामप्रवेशः नि. ६१
॥ ३८ ॥
genelibrary.org