SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 'यस्मिन् वस्तुनि क्रोधादौ निषेव्यमाणे 'अतिचारः' स्खलना भवति 'कस्यचित्' साधोः 'कदाचित्' कस्याञ्चिदवस्थायां 'तेनैव' क्रोधादिना तस्यैव पुनः कदाचिच्छुद्धिरपि भवेत् , चण्डरुद्रसाधोरिव, तेन हि रुषा स्वशिष्यो दण्डकेन ताडितः, तं च रुधिरार्द्र दृष्ट्वा पश्चात्तापवान् संवृत्तः चिन्तयति च-धिग्मां यस्यैवंविधः क्रोधः इति विशुद्धपरिणामस्यापूर्व करणं क्षपकश्रेणिः केवलोदयः संवृत्त इति ॥ बाह्यं व्यापारमङ्गीकृत्य विसदृशतोक्ता, अथ बाह्योऽपि व्यापारो यथा बन्धहेतुर्न स्यात्तथाऽऽहअणुमित्तोऽविन कस्सई बंधो परवत्थुपचओ भणिओ।तहवि अजयंति जइणो परिणामविसोहिमिच्छता॥५७॥ __'अणुमात्रोऽपि' स्वल्पोऽपि बन्धो न कस्यचित् 'परवस्तुप्रत्ययाद्' बाह्यवस्तुनिमित्तात्सकाशाद् 'भणितः' उक्तः, किन्त्वात्मपरिणामादेवेत्यभिप्रायः। आह-यद्येवं न तर्हि पृथिव्यादियतना कार्या, उच्यते, यद्यपि बाह्यवस्तुनिमित्तो बन्धो न भवति तथाऽपि यत्नं विदधति पृथिव्यादौ मुनयः परिणामविशुद्धिं 'इच्छन्तः' अभिलपन्तः, एतदुक्तं भवति-यदि पृथिव्यादिकाययतना न विधीयते ततो नैवेयं स्यात्, यस्तु हिंसायां वर्तते तस्य परिणाम एव न शुद्धः, इत्याह जो पुण हिंसाययणेसु वई तस्स नणु परीणामो । दुट्टो न य तं लिंगं होइ विसुद्धस्स जोगस्स ॥५८॥ यस्तु पुनः 'हिंसायतनेषु' व्यापत्तिधामसु वर्त्तते तस्य ननु परिणामो दुष्ट एव भवति, न च तद्धिंसास्थानवर्त्तित्वं 'लिङ्ग' चिह्नं भवति 'विशुद्धयोगस्य' मनोवाक्कायरूपस्य । तम्हा सया विसुद्धं परिणाम इच्छया सुविहिएणं । हिंसाययणा सवे परिहरियवा पयत्तेणं ॥ ५९॥ NCREASEASCHISARKAR Jain Education a l For Personal & Private Use Only Minelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy