________________
एवमेव 'निर्जरा' फलविशेषा अपि परिणामवशाद् 'बहुविधा' बहुप्रकारा विशिष्टविशिष्टतरविशिष्टतमाः। एकां प्राणिजातिमङ्गीकृत्यान्तरमुक्तम् , अधुना सकलव्यक्त्याश्रयमन्तरं प्रतिपिपादयिषुराहजे जत्तिआ अ हेऊ भवस्स ते चेव तत्तिआ मुक्खे । गणणाईया लोगा दुण्हवि पुण्णा भवे तुल्ला ॥५३॥ | ये हेतवो यावन्तो-यावन्मात्रा 'भवस्य' संसारस्य निमित्तं त एव नान्ये तावन्मात्रा एव मोक्षस्य हेतवो-निमित्तानि । कियन्मात्रास्ते अत आह-गणनाया अतीताः-सङ्ख्याया अतिक्रान्ताः, के?, लोकाः 'द्वयोरपि भवमोक्षयोः संबन्धिनां हेतूनामसङ्ख्येया लोकाः 'पूर्णाः' भृताः, ते तु पूर्णा एकहेतुन्यूना अपि भवन्त्यत आह-तुल्याः, कथंभूताः?-क्रियाविशेषणं 'तुल्याः' सदृशा इत्यर्थः । ननु तुल्यग्रहणमेव कस्मात्केवलं न कृतं ? येन पुनः पूर्णग्रहणं क्रियते, भण्णति पडिवयणं-तुल्लग्गहणेण संवलिआणं संसारमोक्खहेऊणं लोका तुल्लत्ति कस्सति बुद्धी होजा तेण पुण्णग्गहणंपि कीरइ, दोण्हवि पुण्णत्ति जया जया भरिअत्ति नेयवा, इयमत्र भावना-सर्व एव ये त्रैलोक्योदरविवरवर्तिनोभावा रागद्वेषमोहात्मनां पुंसां संसारहेतवो भवन्ति त एव रागादिरहितानां श्रद्धामतामज्ञानपरिहारेण मोक्षहेतवो भवन्तीति एवं तावत्प्रमाणमिदमुक्तम् , इदानीं येषाममी त्रैलोक्यापन्नाः पदार्था बन्धहेतवो भवन्ति न भवन्ति च येषां तदाह
इरिआवहमाईआ जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव उ जयाण निवाणगमणाय ॥५४॥ __ 'ईर गतिप्रेरणयोः' ईरणमीर्या पथि ईर्या ईर्यापथं-गमनागमनमित्यर्थः, ईर्यापथमादौ येषां ते ईर्यापथाद्याः, आदिशब्दादृष्टिवागादिव्यापारा गृह्यन्ते, ईर्यापथाद्या व्यापारा य एव भवन्ति 'कम्मबंधाय' कर्मवन्धनिमित्तं-कर्मबन्धहेतवः, केषाम् ?
ओ०७ Jain Education Ne
For Personal & Private Use Only
Minelibrary.org