SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ ३६ ॥ Jain Education | जयणमजयणं च गिही सचित्तमी से परित्तऽणते अ । नवि जाणंति न यासि अवहपइण्णा अह विसेसो ॥ ४९ ॥ यतनामयतनां च गृहिणो न जानन्ति, क्व ? - सचित्तादौ न च 'एतेषां' गृहिणां 'अवधप्रतिज्ञा' वधनिवृत्तिः, अत एव विशेषः । अविअ जणो मरणभया परिस्समभआ व ते विवज्जेइ । ते पुण दयापरिणया मोक्खत्थमिसी परिहरति ॥ ५० ॥ कण्ठ्या ॥ “अपि च” इति अनेनाभ्युच्चयमाह, नवरं 'ते' त्ति सापायान् पथः । इतश्च साधोः प्राणातिपातापत्तावपि गृहिणा सह वैधुर्यमित्याह अविसिद्धमिवि जोगंमि बाहिरे होइ विहरया इहरा । सुद्धस्स उ संपत्ती अफला जं देखि समए ॥ ५१ ॥ इह् ‘अविशिष्टेऽपि’ तुल्येऽपि 'योगे' प्राणातिपातादिव्यापारे 'बाह्ये' बहिर्वर्त्तिनि भवति 'विधुरता' वैधुर्य विसदृशता, इत्थं चैतदभ्युपगन्तव्यम्, इतरथा शुद्धस्य - साधोः 'संप्राप्तिः' प्राणातिपातापत्तिः 'अफला' निष्फला यतः प्रदर्शिता 'समये' सिद्धान्ते तद्विरुध्यते, तस्मादेतदेवमेवाभ्युपगन्तव्यं, बाह्यप्राणातिपातव्यापारः शुद्धस्य साधोर्न बन्धाय भवतीति ॥ एक्कमिव पाणिवहंमि देसिअं सुमहदंतरं समए । एमेव निज्जरफला परिणामवसा बहुविहीआ ॥ ५२ ॥ ‘एकस्मिन्नपि’ तुल्येऽपि प्राणिवधे 'दर्शितं' प्रतिपादितं सुमहदन्तरं, क्व ? - 'समये' सिद्धान्ते, तथाहि - यथा द्वौ पुरुषौ प्राणिवधप्रवृत्तौ तयोश्च न तुल्यो बन्धो, यस्तत्रातीवसंक्लिष्टपरिणतिः स सप्तम्यां पृथिव्यामुत्पद्यते, अपरस्तु नातिसक्लिष्टपरिणतिः स द्वितीयनरकादाविति । इयं तावद्विसदृशता बन्धमङ्गीकृत्य, इदानीं निर्जरामङ्गीकृत्य विसदृशतां दर्शयन्नाह - For Personal & Private Use Only संयमादात्मरक्षणं नि. ४७-५२ ॥ ३६ ॥ elibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy