________________
सङ्घत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अहवायाओ पुणो विसोही न याविरई ॥ ४६ ॥ 'सर्वत्र' सर्वेषु वस्तुषु, किम् ? - संयमरक्षा कार्या, तदभावेऽभिप्रेतार्थसिद्ध्यसिद्धेः, किमेष न्यायः १, नेत्याह-संयमादप्यात्मानमेव रक्षेत्, आत्माभावेन तत्प्रवृत्त्यसिद्धेः, आत्मानमेव रक्षन्, जीवन्नित्यर्थः, 'मुच्यते' भ्रश्यते तस्मादतिपातात्-हिंसादिदोषात् किं कारणम् ?, उच्यते, अतिपातनात् यतः पुनर्विशुद्धिस्तपआदिना भविष्यति, अथ मन्यसे - पृथिव्याद्यतिपातोउत्तरकालं विशुद्धिर्भवति नाम, किन्तु हिंसायां वर्त्तमानः सः अविरतो लभ्यत इति 'एकव्रतभङ्गे सर्वत्रतभङ्ग' इति वचनात्, तदेतन्नास्ति, यत आह- 'न याविरई, किं कारणं ?, - तस्याशयशुद्धतया, विशुद्धपरिणामस्य च मोक्षहेतुत्वात् । यद्वा सर्वत्र संयमं रक्षन्नतिपातान्मुच्यते - अतिपातो न भवति, किमयमेव न्यायः ?, नेत्याह - संयमादात्मानमेव रक्षन्, येन पुनरपि विशुद्धिर्भवति, न चातिपातेऽप्यविरतिरिति पूर्ववत् । किं कारणं संयमादप्यात्मा रक्षितव्यः १, उच्यते, यतः
संजमहे देहो धारिजइ सो कओ उ तदभावे ? | संजमफाइनिमित्तं देहपरिपालणा इट्ठा ॥ ४७ ॥ इह हि ‘संयमहेतुः' संयमनिमित्तं देहो धार्यते, स च - संयमः कुतः 'तदभावे' देहाभावे ? । यस्मादेतदेवं तस्मात् 'संयमस्फातिनिमित्तं, संयमवृद्ध्यर्थं देहपरिपालनमिष्टं - धर्मकायसंरक्षणमभ्युपगम्यते ॥ आह- लोकेनाविशिष्टमेतत्, तथाहिचिक्खल्लवालसावयसरेणुकंटयतणे बहुजले अ । लोगोऽवि नेच्छइ पहे को णु विसेसो भयंतस्स ? ॥ ४८ ॥ चिक्खल्लव्यालस्वापदसरेणुकण्टकतृणान् बहुजलांश्च सोपद्रवान् मार्गान् पथः लोकोऽपि नेच्छत्येव, अतः को नु विशेषो ? लोकात्सकाशाद्भदन्तस्य येनैवमुच्यत इति ?, उच्यते
Jain Education clonal
For Personal & Private Use Only
kinelibrary.org