________________
Jain Education In
क्रान्तसप्रत्यपायअनाक्रान्तनिष्प्रत्यपाय अनाक्रान्तसप्रत्यपायरूपाः । स्थापना -- ॥ ननु च कस्मादचित्तवनस्पतियतनोच्यते १ तथाहि - सचेतनविषया यतनेति न्यायः, उच्यते, तत्राप्यस्ति कारणं, 15 यद्यपि अचित्तस्तथाऽपि कदाचित्केषाञ्चिद्वनस्पतीनामविनष्टा योनिः स्याद् गुडूचीमुद्गादीनां, तथाहि - गुडूची । शुष्काऽपि सती जलसेकात्तादात्म्यं भजन्ती दृश्यते, एवं कङ्कटुकमुद्गादिरपि, अतो योनिरक्षणार्थमचेतनयतनाऽपि SS / न्यायवत्येवेति । अथवाऽचित्तवनस्पतियतनया दयालुतामाह, अचेतनस्यैते भेदा न भवन्ति, किन्तु सचित्तमिश्रयोरेव योजनीयाः । उक्तं वनस्पतिद्वारम्,
अधुना त्रसद्वारमाह
तिविहा बेइंदिया खलु थिरसंघयणेयरा पुणो दुविहा । अकंताई य गमो जाव उ पंचिंदिआ नेआ ॥ ४२ ॥
'त्रिविधाः ' त्रिप्रकारा द्वीन्द्रियाः- सचित्तादिभेदात्, सचित्ताः सकलजीवप्रदेशवन्तः, अचित्तास्तु विपर्ययात्, मिश्रा - स्त्वेत एव करम्बीभूताः, पुनरेकैको द्विविधः, तथाहि - सचित्तो थिरसंघयणो अथिरसंघयणो अ, एवं अचित्तो मिस्सोवि, जो सो स्थिरसंघयणो तत्थ चउभंगी - अकंतोऽणकंतो सपच्चवाओ इयरो य, एवं अण्णेऽवि 'अक्कंतादीयत्ति आक्रान्तादिर्गमको भङ्ग इति, अनेन चतुर्भङ्गिका सूचिता । एवमयं क्रमस्त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाणां सचित्ताचित्तमिश्रादिर्योजनीय इति । एवं तावत्सजातीययतनोक्ता, इदानीं विजातीयेन सहाह
पुढविदय पुढविए उदएर पुढवितस वालकंटा य । पुढविवणस्सइकाए ते चेव उ पुढविए कमणं ॥ ४३ ॥ पुढवित से सरहिए निरंतरतसेसु पुढविए चेव । आउवणस्सइकाए वणेण नियमा वर्ण उदए ॥ ४४ ॥
For Personal & Private Use Only
ahelibrary.org