________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥ २९ ॥
भवति, आत्मसंयमयोः, तत्रात्मनो विराधना कण्टकादिवेधात्, इतरा तु त्रसादिपीडनात् । इदानीं विराधनाऽधिकदोपप्रदर्शनायाह - 'सिग्गखुप्पंते' 'सिग्गउ'त्ति श्रमो भवति, 'खुप्पंते'त्ति कर्दम एव निमज्जति, सति तत्र शुष्केन पथा गमनमभ्यनुज्ञातमासीत्, तेनापि न गन्तव्यं यद्यसौ धूलीबहुलो भवति मार्गः, किं कारणं ?, यतो धूलीबहुलेनापि पथा गच्छतस्त एव दोषाः के च ते १, संयमविराधना आत्मविराधना च तत्रात्मविराधना अक्ष्णोर्धूलिः प्रविशति, निमज्जन् श्रान्तश्च भवति, उपकरणं मलिनीभवति, तत्र यद्युपकरणक्षालनं करोत्यसामाचारी, अथ न क्षालयति प्रवचनहीलना स्यात्, अत उच्यते 'भट्ठिए गमणं ति, भ्राष्ट्या गन्तव्यं - रजोरहितया तु गन्तव्यमिति । इदानीं भाष्यकार आर्द्रस्य पृथिवीकायस्य भेदान् दर्शयन्नाह -
तिविहो उ होइ उल्लो महसित्थो पिंडओ य चिक्खल्लो । लत्तपहलिप्त उंडअ खुप्पिज्जइ जत्थ चिक्खिल्लो ३३॥ (भा०)
यस्तावदाद्रः स त्रिविधः - 'मधुसित्थो पिंडओ य चिक्खल्लो' एतेषां यथासङ्ख्येन स्वरूपमाह - 'लत्त पहलित्तउंदग खुप्पि - जति जत्थ चिक्खल्लो' 'लत्त'त्ति अलत्तोऽलक्तकः पथः येन प्रदेशेनालक्तः कामिन्याः पात्यते तावन्मात्रं यो लिम्पति कर्दमः स मधुसित्थकोऽभिधीयते, उंडकाः - पिण्डकास्तद्रूपो यो भवति, पादयोर्यः पिण्डरूपतया लगति स पिण्डक इत्यर्थः, यत्र तु निमज्जनं स्यात्स चिक्खल इति । शुष्कमार्गश्च भाष्यकृता न व्याख्यातः, प्रसिद्धत्वाद्भेदरहितत्वाच्चेति । अथ स मार्गः शुष्कचिक्खल्लरूपोऽपि सप्रत्यपायो निष्प्रत्यपायश्चेति, ते चामी प्रत्यपायाः
पच्चवाया वालाइ सावया तेणकंटगा मेच्छा । अकंतमणकंते सपच्चवाएयरे चैव ॥ २४ ॥
Jain Education International
For Personal & Private Use Only
कर्दमभेदाः
भा. ३३ प्रत्यपाया
दिनि. २४
॥ २९ ॥
www.jainelibrary.org