SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Education सन्दिष्टः प्राग् पश्चादनुज्ञातो वेति ततो गच्छति, कथम् ? - ससहायः कियन्तं कालं यावत्ससहायो व्रजति :'यावत्प्रभातं ' जातसूर्योदय इत्यर्थः, ससहायश्च प्रभातं यावद्वजति श्वापदादिभयात्, एवमसौ साधुर्व्रजन् ग्रामसमीपं प्राप्तः सन् किं करोतीत्याह - उपयोगं करोति, किंविषयम् ? - उभयविषयं, मूत्रपुरीषपरित्याग इत्यर्थः, कस्मादेवं चेत् ग्रामसन्निधान एव स्थण्डिलसद्भावाद् गवादिसंस्थानात् ॥ अथ रात्रौ गच्छतः कैश्चिदपायः संभाव्येत ततः प्रभातं यावत्स्थातव्यं, तथा चाह - हिमतेणसावयभया दारा पिहिया पहं अयाणंतो । अच्छइ जाव पभायं वासिय भत्तं च से वसभा ॥ ११ ॥ हिमं - शीतं स्तेनाः-चौराः श्वापदानि - सिंहादीनि, एतद्भयात्प्रभातं यावदास्ते, यदि पुरस्य द्वाराणि पिहितानि ग्रामस्य फलहकं पथानं वाऽजानंस्तिष्ठति यावत्प्रभातमिति । एवं च प्रभातं यावत्स्थिते गन्तरि 'वासिकभक्तं' दोषान्नं 'से' तस्य 'वसभा' गीतार्था आनयन्ति । अथ केभ्यस्तदानीयते ! ठवणकुल संखडीए अणहिंडते सिणेह पयवज्जं । भत्तट्ठिअस्स गमणं अपरिणए गाउयं वहइ ॥ १२ ॥ स्थापनाकुलेभ्यः तथा 'संखडीए' त्ति सामयिकी भाषा भोजनप्रकरणार्थे तस्य वा, के पुनस्तदानयन्त्यत आह- 'अणहिंडंते' ये भिक्षां न पर्यटितवन्तः, कस्मात्पुनस्ते भक्तमानयन्ति ?, उच्यते, तेषामहिण्डकानां गृहस्था गौरवेण प्रयच्छन्ति, कीदृशं पुनस्तैर्भक्तमानयनीयम् ? - 'सिणेहपयवज्जं ति स्नेहेन - घृतादिना पयसा - क्षीरेण (वर्जितं ) भक्तं गृह्णन्ति, न तैलं ग्राह्यम For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy