SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ २३ ॥ मङ्गलत्वात्, न घृतं परितापहेतुत्वात्, न दुग्धं भेदकत्वात् काञ्जिकविरोधित्वाच्च, काञ्जिकप्रायपायित्वाच्च संयतानां, किं पुनस्ते गृह्णन्ति ? - दधिसक्तुकादि, तदसौ भुक्त्वा व्रजति, तथा चाह - 'भत्तट्ठिअस्स गमणं' भुक्तवतस्ततो गमनं भवति, अथ न तस्य भक्तपरिणतिर्जातेत्यतोऽपरिणते भक्ते सति गव्यूतिमात्रं यावन्मार्ग वहति । क्रोशद्वयं गव्यूतिः ॥ इदानीं तस्य गच्छतो विधिरुच्यते अत्थंडिलसंकमणे चलवक्खित्तणुवउत्तमागरिए । पडिपक्खेसु उ भयणा इयरेण विलंबणा लोगं ॥ १३ ॥ स्थण्डिलादस्थण्डिलं च संक्रामता साधुना पादौ रजोहरणेन प्रमार्जनीयाविति विधिः, मा भूत् सचित्तपृथिव्या अचित्तपृथिव्या व्यापत्तिः स्यात्तथा च पादयोरसौ रजोहरणेन प्रमार्जनं करोति, अथ कश्चित्सागारिकः पथि व्रजतश्चलो भवति व्याक्षिप्तोऽनुपयुक्तश्चेति, तत्र चलो - गन्तुं पथि प्रवृत्तः, व्याक्षिप्तो - हलकुलिशवृक्षच्छेदादिव्यग्रः, अनुपयुक्तः - साधुं प्रत्यदत्तावधानः, यदैवंविधः सागारिको भवति तदा रजोहरणेन प्रमृज्य पादौ याति । 'पडिपक्खेसु उ' इति विसदृशाः पक्षाः प्रतिपक्षाः, असदृशा इत्यर्थः, तेषु प्रतिपक्षेषु 'भजना' विकल्पना कर्त्तव्या, एतदुक्तं भवति - केषुचित्प्रतिपक्षेषु प्रमार्जनं क्रियते केषुचित्तु नैव, तुशब्दो विशेषणार्थः, किं विशेषयति ?, प्रतिपक्षेष्वेव समुदायरूपेषु भजना कर्त्तव्या, न त्वेकैकस्मिन् भङ्ग इति यदा तु सागारिकः स्थिरोऽव्याक्षिप्त उपयुक्तश्च साधुं प्रति भवति तदा 'इतरेणं'ति इतरशब्देन रजोहरणनिष| द्योच्यते तया पादौ प्रमार्ष्टि, न रजोहरणेन, 'विलंबण' त्ति तां च निषद्यां हस्तेन विलम्बमानां नयति, न तच्छरीरसं| स्पर्शनं करोति, कियतीं भुवं यावदित्याह -' आलोयण' त्ति आलोकनमालोको यावत्तद्दृष्टिप्रसर इत्यर्थः, अथवा 'इतरेणं' ति Jain Education International For Personal & Private Use Only विहारविधिः नि. ११-१२१३ ॥ २३ ॥ www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy