________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
लक
विधिः भा. ३०९नि. ६५२-६५५
॥२०४॥
स्पर्श वा व्याहन्यते, तथा यदि प्रमार्जयन् न प्रविशति ततश्च व्याहन्यते कालः, 'भीतः' त्रस्तो वा यदि भवति तथाऽपि व्याहन्यते, क्षुते वा व्याहन्यते, छिनत्ति वा-यदि मार्जारश्वादिस्तिर्यक् छिन्दन व्रजति, ततश्चैभिरनन्तरोदितैः कालस्य वधो-भङ्गो भवतीति । आगम इरियावहिया मंगल आवेयणं तु मरुनायं । सवेहिवि पट्टविएहि पच्छा करणं अकरणं वा ॥ ६५४॥ __आगत्य च गुरुसमीपमीर्यापथिको प्रतिक्रामति, कायोत्सर्ग चाष्टोच्छासं पञ्चनमस्कारं चिन्तयति, तेनैव चोत्सारयति, मङ्गलमिति पश्चनमस्कार उच्यते, तत ईर्यापथिकां प्रतिक्रम्य गुरोः 'आवेदयति' निवेदयति कालमित्यर्थः । अत्र मरुओबंभणो तेनैव ज्ञातं-दृष्टान्तः, तंजहा-कम्हिइ पट्टणे धिज्जायाणं राइणा दिन्नं, तेसिं च घोसावियं-जो सामन्नो सो गेण्हउ आगंतूणं भागं एत्थ, एवं हक्कारिए जो आगतो तेण लद्धो भागो, जो पुण गामाईसु गतो सो चुक्को, एवं साहवि दंडधारिणा घोसिए जे उवउत्ता ठिया णिवेदिए य काले जेहिं सज्झाओ पट्टविओ ताणं सज्झाओ दिज्जइ, जे पुण विकहादिणा ठिया ताणं सज्झायकरणं न दिजइ । एतदेवाह-सर्वैः साधुभिः स्वाध्याये प्रस्थापिते सति पश्चात्तेभ्यः स्वाध्यायकरणं दीयते, ये पुनः कालग्रहणवेलायामुपयुक्ता न स्थिताः न स्वाध्यायप्रस्थापनवेलायां सन्निहिता भूतास्तेभ्य स्वाध्यायकरणं न दीयते । इदानीं मरुककथानकमुपसंहरन्नाहसन्निहियाण वडारो पट्टविय पमाय नो दए कालं । बाहिठिए पडियरए पविसइ ताहेव दंडधरो ॥ ६५५ ॥ सन्निहितानां त्रैविद्यब्राह्मणानां 'वडारों' वण्टकः आकरणं-आह्वानं यथासन्निहितानां, ये तु नागतास्तेषां न वण्टको
॥२०४॥
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org