________________
विभागो जातः, एवमत्रापि 'पट्ठवियति स्वाध्यायप्रस्थापनं यैः कृतं तेभ्यो दीयते स्वाध्यायः, ये पुनः प्रमादिनस्तेभ्यो न दीयते काल इति, काले गृहीते स्वाध्यायो भवति, पुनश्च निवेदिते सति काले पुनर्बहिरन्यः प्रतिजागरक" प्रेष्यते, पुनश्च तत्र बहिः स्थिते प्रतिजागरके सति ततो दण्डधारी प्रविशतीति ।
पट्टविय बंदिए या ताहे पुच्छेह किं सुयं भंते । तेंवि य कर्हति सवं जं जेण सुयं वदिहं वा ॥ ६५६ ॥
पुनश्वासौ प्रस्थापितस्वाध्यायो वन्दितगुरुश्च सन् तदा साधून् पृच्छति दण्डधारी, यदुत हे भदन्त ! भवतां मध्ये केन किं श्रुतं ?, तेऽपि च साधवः कथयन्ति सर्व यद्येन श्रुतं गर्जितादि दृष्टं वा कपिमुखादि । पुनश्च तत्र केषाञ्चिद्गर्जितादिशङ्का भवति ततश्च को विधिरित्यत आह
एक्स्स दोण्ह व संकियंमि कीरइ न कीरए तिन्हं । सगणंमि संकिए परगणंमि गंतुं न पुच्छति ॥ ६५७ ॥ एकस्य गर्जितादिशङ्किते क्रियते स्वाध्यायः, द्वयोर्वा, त्रयाणां पुनर्गर्जिताद्याशङ्कायां न क्रियते स्वाध्यायः, एवं यदि स्वगणे शङ्का भवति ततश्चैवंविधायां स्वगणे शङ्कायां सत्यां 'परगणे' अन्यगच्छे गत्वा न पृच्छन्ति, किं कारणं १, यत इह कदाचित्स कालग्राहकः साधू रुधिरादिनाऽनायुक्त आसीत् ततश्च देवता कालं शोधयितुं न ददाति तत्र तु परगणे नैवं, अथवा परगण एव कदाचिदनायुक्तः कश्चिद्भवति इह तु नैवं, तस्मात्परगणो न प्रमाणमिति । इदानीं यदुक्तमासीत् 'कालचतुष्के नानात्वं वक्ष्यामः' तत्प्रदर्शयन्नाह -
कालच नाणस तु पादोसियंमि सवेवि । समयं पट्टवयंती सेसेसु समं व विसमं वा ॥ ६५८ ॥
बो० ३५eal
For Personal & Private Use Only
www.jainelibrary.org