SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ शालायाम्' अनाथमण्डपे दीर्घ 'घट्टना' परस्परेण वैदेशिकैर्वा स्तम्भैर्वा सह निर्गच्छतः प्रविशतो वा तादृशो व्याघातकालः, तथा श्राद्धकादीनां यत्राचार्यो धर्मकथां करोति सोऽपि व्याघातकालः, न तत्र कालग्रहणं भवति नापि कालवेलानिरूपणार्थ प्रच्छनं भवति । वाघाते तइओ सिं दिजइ तस्सेव ते निवेयंति । निवाघाते दुन्नि उ पुच्छंती काल घेच्छामो ॥ ६४०॥ एवं घडशालायां व्याघाते सति तृतीयस्तयोः-कालग्राहिणोः उपाध्यायादिर्दीयते येन तस्यैवाग्रतो बाह्यत एव निवेदयन्ति सन्दिशापयन्ति च । अथ निर्व्याघातं भवति-नकश्चिद् घवशालायां धर्मकथादिर्वा कालव्याघातः वैदेशिकादिव्याघातो वा, ततश्च निर्व्याघाते सति द्वावेव निर्गच्छतः एकः कालग्राहकः अपरो दण्डधारी, पुनश्च तौ पृच्छतः, यदुत 'कालं गृहीवः' वेलां निरूपयाव इत्यर्थः, तेषां च निर्गच्छतां यद्येते व्याघाता भवन्ति ततश्च निवर्तन्ते-न गृह्णन्ति कालं॥ के च ते व्याघाताः, आपुच्छण किइकम्मं आवस्सियखलियपडियवाघाओ। इंदिय दिसा य तारा वासमसज्झाइयं चेव ॥ ६४१॥ जइ पुण वच्चंताणं छीयं जोइं च तो नियतंति । निवाघाते दोन्नि उ अच्छंति दिसा निरिक्खंता॥ ६४२॥ गोणादि कालभूमीऍ होज संसप्पगा व उडेजा। कविहसियवासविजुक्कगजिए वावि उवघातो ॥ ६४३ ॥ __ आपृच्छनानाम आपुच्छित्ता गच्छन्ति दंडगं गहाय मत्थएण वंदामि खमासमणो कालस्स वेलं निरूवेमो, एवं च यदि न पृच्छन्ति ततो व्याघातो भवति-न ग्राह्यः कालः, अथाविनयेन वा पृच्छन्ति तथाऽपि व्याघात एव, कृतिकर्म in Education into For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy