SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ १९ ॥ Jain Education खुभिए वा एगागी होज्जा, जहा उज्जेणीए अरहट्टमाला पडिआ, लोगो सबो पलाओ मालवा पडियत्ति, एरिसे खुभिए एगागी होज्जा, जो जओ सो तओ णासति । दारं ॥ अधुना यदुक्तं राजभयद्वारे, 'वायनिमित्तं च से पउस्सेज 'त्ति तद्व्याचिख्यासुराहतस्स पंडियमाणस्स, बुद्धिल्लस्स दुरप्पणो । मुद्धं पाएण अक्कम्म, वाई वाउरिवागओ ॥ २७ ॥ ( भा० ) आह चोदकः-शोभनं स्थानं तद् व्याख्यायाः, ननु क्षुभितद्वारेणान्तरितत्वात्कोऽयं प्रकारः ! इति, अत्रोच्यते, निर्यु|क्तिग्रन्थवशाददोषः । यतोऽत्रैकगाथया “अंतेउरे" इत्यादिकया राजभयक्षुभितद्वारे उक्ते ततस्तत्रानवसरत्वादिहैव युक्ता व्याख्या, ' तस्ये 'ति 'तस्य' राज्ञो भयहेतोः, कथंभूतस्य ? - 'पण्डितमानिनः पण्डितंमन्यस्य पण्डितमात्मानं मन्यते स एवंमन्यो, ज्ञानलवदुर्विदग्धत्वात्, बुद्धिं लातीति बुद्धिलो बुद्धिलस्य 'दुरात्मनः' मिथ्यादृष्टित्वादभद्रत्वाच्छासनप्रत्यनीक| त्वात्स तथा तस्य, किमित्याह - 'मूर्द्धानं ' उत्तमाङ्गं पादेनाक्रम्य 'वादी' वादलब्धिसंपन्नः साधुर्वायुरिवागतः - अभीष्टं स्थानं प्राप्त इत्यक्षरार्थः, समुदायार्थस्तु स राजा पण्डितंमन्यतया दर्शनं निन्दति, तद्वादी वा कश्चित्, तत्र च साधुर्वादी, तेन | सभां प्रविश्य न्यायेन पराजितः, तथाऽपि न साधुकारं ददाति प्रभुत्वात्तथाऽपि निन्दति, पुनश्चासौ साधुर्वादी विद्यादि| बलेन सभामध्ये तस्य शिरसि पादं कृत्वाऽदर्शनीभूतः, ततश्चासौ परं परिभवं मन्यमानः प्रकर्षेण द्वेषं यायात्, इति | श्लोकार्थः ॥ उत्तमार्थद्वारप्रतिपादनायाह १ क्षोभे बैकाकी भवेत्, यथा उज्जयिन्यां भरहट्टघटीमाला पतिता, लोकः सर्वः पलायितः - मालवाः पतिता इति, ईडशे क्षोभे एकाकी भवेत्, यो यत्र स ततो नश्यति । For Personal & Private Use Only एकाकि कारणानि भा. २६-२७ ॥ १९ ॥ Snelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy