SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आचार्यस्य प्रायोग्यग्रहणे क्रियमाणे सूत्रार्थयोः स्थिरीकरणं कृतं भवति, यतो मनोज्ञाहारेण सूत्रार्थों सुखेनैव चिन्त-18 यति, अत आचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यं, तथा विनयश्चानेन प्रकारेण प्रदर्शितो भवति, गुरुपूजा च कृता भवति, सेहस्य चाचार्य प्रति बहुमानः प्रदर्शितो भवति, अन्यथा सेह इदं चिन्तयति, यदुत न कश्चिदत्र गुरुर्नापि लघुरिति, अतो विपरिणामो भवति, तथा प्रायोग्यदानपतेश्च श्रद्धावृद्धिः कृता भवति, तथा बुद्धेर्बलस्य चाचार्यसत्कस्य वर्द्धनं भवति, तत्र च महती निर्जरा भवति । | एएहिं कारणेहि उ केइ सहुस्सवि वयंति अणुकंपा । गुरुअणुकंपाए पुण गच्छे तित्थे य अणुकंपा ॥ ६१०॥ 'एभिः' पूर्वोक्तकारणैः केचित्समर्थस्याप्याचार्यस्यानुकम्पा कर्त्तव्येत्येवं वदन्ति, यतो गुरोरनुकम्पया गच्छे तीर्थे चानुकम्पा कृता भवति । यतश्चैवमतः प्रायोग्यग्रहणं ग्राह्यमिति । अत आह सति लाभे पुण दबे खेत्ते काले य भावओ चेव । गहणं तिसु उक्कोसं भावे जं जस्स अणुकंपं ॥ ६११॥ 'सति' विद्यमाने लाभे द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्ट ग्राह्यं । इदानीं नियुक्तिकारो व्याख्यानयन्नाह'गहणं तिसु उक्कोसं ग्रहणं त्रिषु द्रव्यक्षेत्रकालेषु उत्कृष्टं कर्त्तव्यं, भावे तु यद्वस्तु यस्याचार्यस्यानुकूलं तद्गृह्यते । इदानीं भाष्यकृव्याख्यानयति, तत्र द्रव्ये उत्कृष्टतां प्रदर्शयन्नाहकलमोतणोउ पयसा उक्कोसो हाणि कोद्दवुब्भज्जी। तत्थवि मिउतुप्पतरयंजत्थ व जं अच्चियं दोसु॥३०७॥(भा०) कलमशाल्योदनः पयसा सह द्रव्यमुत्कृष्टं ग्राह्य, तदलाभे हान्या तावत् गृह्यते यावत् 'कोद्दवोभज्झी' कोद्दवजाउ SAOPERASAASAASAHIHIRAILAG Jain Education mere For Personal & Private Use Only Taimelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy