________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥ १९५॥
दिति, एवमुक्ते परेण आह सूरि :- 'अइरेगं होज उ इमेहिं' 'अतिरिक्त' शुद्धमपि भक्तं 'एभिः ' वक्ष्यमाणकारणैर्भवेत्, कानि च तानि वक्ष्यमाणकारणानीत्यत आह
आरिए गिलाणे पाहुणए दुल्लभे सहसदाणे । एवं होइ अजाया इमा उ गहणे विही होइ ॥ ६०७ ॥ कदाचित्कस्मिंश्चित्क्षेत्रे आचार्यप्रायोग्यं दुर्लभं भवति ततश्च सर्व एव सङ्घाटका आचार्यप्रायोग्यस्य ग्रहणं कुर्वन्ति ततश्च तद् घृतादि कदाचित्सर्व एव लभन्ते ततस्तदुद्धरति, ततोऽन्येषां च साधूनां पर्याप्तं, एवमाचार्यार्थ गृहीतस्य शुद्धस्यापि परिष्ठापना भवति । तथा ग्लानार्थमप्येवमेव गृहीतं सदुद्धरति, प्राघूर्णकानामप्येवमेव, तथा दुर्लभलाभे सति सर्वैरेव सङ्घाटकैगृहीतमुद्धरति, तथा 'सहसदाणे' अप्रतर्कितदाने सति प्रचुरमुद्धरति, तत एवं भवति अजातापरिष्ठापनिका । तत्र चाचार्यादीनां ग्रहणेऽयं विधिः- वक्ष्यमाणः कश्चासावित्यत आह
जइ तरुणो निरुवहओ भुंजइ तो मंडलीइ आयरिओ । असहुस्स वीसुगहणं एमेव य होइ पाहुणए ॥ ६०८ ॥
केचनैवं भणंति-यद्यसावाचार्यस्तरुणो निरुपहतपञ्चेन्द्रियश्च ततोऽसौ मण्डल्यामेव भुङ्क्ते सामान्यं, अथ असहू- असमर्थस्तत स्तस्य विष्वक् पृथग ग्रहणं प्रायोग्यस्य कर्त्तव्यं, एवमेव प्राघूर्णकेऽपि विधिर्द्रष्टव्यः, यदि प्राघूर्णकः समर्थस्ततो नैव तत्प्रायोग्यग्रहणं क्रियते, अथासमर्थस्ततः क्रियत इति केचित्पुनरेवं भणन्ति यदुत समर्थस्याप्याचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यं, यत एते गुणा भवन्ति
सुत्तत्थथिरीकरणं विणओ गुरुपूय सेहबहुमाणो । दाणवतिसद्धबुट्टी बुद्धिबलवडणं चेव ॥ ६०९ ॥
Jain Education International
For Personal & Private Use Only
जाता पारिष्ठापनिकायां त्रिस्थानं श्रावणं नि.
६०५ अजा तापारिष्ठाप निका नि. ६०६-६०९
॥ १९५॥
www.jainelibrary.org