________________
सुगमाः॥ इदानी उबरिएत्ति द्वारं भण्यते, अथवा स्वयमेव भाष्यकारः संबन्धं प्रतिपादयन्नाहभत्तहिन उवरिअं अहव अभत्तट्ठियाण जं सेसं । संबंघेणाणेण उ परिठावणिआ मुणेयत्वा ॥ ३०४ ॥ (भा०)
भक्तार्थिकानां च भुक्तानामुद्वरितं यद् अथवा अभक्तार्थिकानां भुक्तानां पारिष्ठापनिकभोक्तृणां यदुद्वरितं यच्छेषं तत्परिष्ठापनीयमितिकृत्वा अनेन सम्बन्धेन परिष्ठापनिका विज्ञेया भवतीत्यर्थः। सा पुण जायमजाया जाया मूलोत्तरेहि उ असुद्धा । लोभातिरेगगहिया अभिओगकया विसकया वा॥५९४॥
सा पुनः परिष्ठापनिका जाताऽजाता भवति, तत्र जाता ग्रहणकाल एव प्राणातिपातादिदोषेण युक्ता अथवा आधाकर्मादिदोषेण 'जाता' उत्पन्ना, अजाता पुनः-आधाकर्मादिदोषेण न दूषिता या साऽजातेत्युच्यते, तत्र जातास्वरूपप्रतिपादनायाह-मूलगुणैः-प्राणातिपातादिभिरशुद्धा, तथोत्तरगुणैश्च आधाकर्मादिभिरशुद्धा, तथा लोभातिरेकेण-लोभाभिप्रायेण साधुना गृहीता साऽप्यशुद्धा लोभदोषदूषिता सती जातेत्युच्यते, तथा अभियोगकृता, अभियोगो द्विविधः-वशीकरणचूर्णो मन्त्रश्च, तत्र सा भिक्षा कदाचित् संयोजिता भवति मन्त्राभिमन्त्रिता वा साऽप्यशुद्धा, अतो जाता सा पारिष्ठापनिकेत्युच्यते, विषेण वा व्यामिश्रं भक्त केनचिद् द्विष्टन दत्तं भवति तस्य यत् परिष्ठापनिका सा जातापरिष्ठापनिकेति । इदानीं भाष्यकृदेनामेव गाथां व्याख्यानयति, तत्र जातापरिष्ठापनिकीस्वरूपाभिधानायाह
मूलगुणेहिं असुद्धं जं गहिअं भत्तपाण साहहिं । एसा उ होइ जाता वुच्छं सि विहीऍ वोसिरणं ॥ ३०५॥ (भा०)
मो०३३
Jain Education in
For Personal & Private Use Only
J
ibrary.org