________________
श्रीओघ- नियुक्तिः द्रोणीया वृत्तिः
पारिष्ठापनिकाविधिःभा. ३०१-३०३
॥१९२॥
नान्यत्र प्रदेशे भक्षयति । सुरभि यद् 'दोचंग'तीमनं ओदनादिना सह यन्मिश्रीभूतं तत्र द्रवं प्रक्षिप्य यो निर्यासः संजातस्तत्पिवनं यत्तद् द्रवितरसमुच्यते । तथाऽधस्तादुपरि च यद् 'आमटुं विपर्यासीकृतं भुङ्क्ते तदेतत्परामहं, अयमेष भोजनेऽविधिः। कः पुनर्ग्रहणभोजनयोविधिः? इत्यत आह-यथैव गृहीत-गृहस्थेन दत्तं सत्तत्तथैवानीतं यदयं ग्रहणविधिः, भोजने पुनरयं विधिः-यदुतोत्कृष्टद्रव्यमनुत्कृष्टद्रव्यं च समीकृतरसं भुञ्जीतेत्ययं प्रथमो भङ्गकः शुद्ध इति । तृतीयेऽपि भङ्गकेऽविधिना असामाचार्या गृहीतं विधिना भुक्तं-समीकृतरसं सद् भुक्तं तच्च गुरुणाऽनुज्ञातं, शेषौ तु द्वौ भङ्गको नानुज्ञातौ, यस्तु विधिगृहीतमविधिभुक्तं काकशृगालादिरूपं भक्तं ददाति योऽपि गृह्णाति तयोर्द्वयोरपि 'निजुहणा' निर्धारणं क्रियते, तथाऽविधिगृहीतमविधिभुक्तं च यो ददाति गृह्णाति वा तयोद्धयोरपि निर्धारणं क्रियत इति । अथवा एतद्दोषाकरणतया-अनासेवनया उपस्थितं दातारं ग्रहीतारं च ज्ञात्वा संगोपायनं क्रियते, कल्याणकं च गुरवो ददति, तच्च ददति 'घट्टयित्वा' तिरस्कृत्य, यदुत त्वया पुनरेवं न कर्त्तव्यं, स चैवं गुरुः किंनिमित्तं करोतीत्यत आह–'पसंगविणिवारणहाए' प्रसङ्गस्य-पुनरासेवनस्य निवारणार्थमेवं करोतीति ।। घासेसणा य एसा कहिया भे! धीरपुरिसपन्नत्ता । संजमतवडगाणं निग्गंथाणं महरिसीणं ॥ ३०१॥ (भा०) एयं घासेसणविहिं जुजता चरणकरणमाउत्ता। साह खवंति कम्म अणेगभवसंचियमणंतं ॥३०२॥ (भा०)।
एत्तो परिढवणविहिं वोच्छामि धीरपुरिसपन्नत्तं । जं नाऊण सुविहिया करेंति दुक्खक्खयं धीरा ॥ ३०३ ॥ (भा०)
॥१९२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org