SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ SORREGISTRUSSKARARIS शरीरपरिकर्मानन्तरं सर्वाहारं मुञ्चतीति ॥ इदानीं भाष्यकार एव एतानि षट् स्थानानि प्रदर्शयन्नाह-'आतङ्कः' ज्वरादि | श्यते. तथा 'उपसर्गः' राजादिजनितः, एतेषां तितिक्षाथै सहनार्थ न भोक्तव्यं, तथा ब्रह्मचर्यगुप्त्यर्थं च न भोक्तव्यं, तथा तपोऽर्थ शरीरव्यवच्छेदार्थ च न भोक्तव्यमिति । इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽह-आतङ्को-ज्वरादिः, आदिग्रहणादन्यो व्याधिर्यत्र भोजनं न पथ्यं तदर्थं न भुङ्क्ते । दारं । राज्ञा राजकुलधार-15 णादिरूपो यद्यपसर्गः कृतः, सणायगो वा-स्वजनः यदि उन्निष्क्रमणार्थमुपसर्ग करोति ततो न भुड़े। दारं । ब्रह्मव्रतपालनार्थं न भुले, यतो बुभुक्षितस्योन्मादो न भवति । दारं । तथा प्राणदयार्थ न भुङ्क्ते, यदि वर्षति महिका वा निपतति । दारं ॥ तपोऽर्थ न भुते, तच्च चतुर्थादि यावत्षण्मासास्तावत्तपो भवति तदर्थं न भुते । दारं । षष्ठं शरीरस्य व्यवच्छेदार्थमनाहारः साधुर्भवतीति । एभिः पूर्वोक्तैः षभिः स्थानैरनाहारो यो भवति स धर्म नातिकामति भिक्षुरतो ध्यानयोगरतेन भवितव्यमिति । अथेदमुक्तं षड्भिः कारणैराहार आहारयितव्यः षड्भिश्च कारणैर्नाहारयितव्यस्ततः किमेतद्भोजनमपवादपदं ?, उच्यते ?, अपवादपदमेवैतद्, यतः झुंजतो आहारं गुणोवयारं सरीरसाहारं । विहिणा जहोवइ8 संजमजोगाण वहणहा ॥५८३॥ भुञ्जन्नाहारं, किंविशिष्टं ?-'गुणोपकारं' ज्ञानदर्शनचारित्रगुणानामुपकारक, तथा शरीरस्य साधारकमाहारं भुञ्जन् विधिना-ग्रासैषणाविशुद्ध 'यथोपदिष्टम्' आधाकर्मादिरहितं 'संयमयोगानां संयमव्यापाराणां वहनार्थ भुञ्जन्नपवाद SASSANASTOASISEASESLAG Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy