________________
श्रीओषनियुक्तिः द्रोणीया वृत्तिः
| आहारार्पणादिःनि. ५७३-५७५
॥१८८॥
साधोरपि सारासारयोजना कत्ता वणिग्न्यायेन ॥ एवं तेषां भुञ्जानानां यदि पतग्रहको भ्रमन्नेवार्द्धपथे निष्ठां याति तदा को विधिरित्यत आहजत्थ पुण पडिग्गहगो होज कडो तत्थ छुब्भए अन्नं । मत्तगगहिउच्चरिअं पडिग्गहे जं असंसर्ट ॥ ५७३ ॥ जं पुण गुरुस्स सेसं तं छुब्भइ मंडलीपडिग्गहके । बालादीण व दिजइ न छुभई सेसगाणऽहिअं॥५७४॥ सुक्कोल्लपडिग्गहगे विआणिआ पक्खिवे दवं सुक्के । अभत्तहिआण अट्ठा बहुलं भे जं असंसह ॥ ५७५॥ | यत्र पुनर्भुञ्जानानां पतगृहको 'भवेत् कडो'त्ति निद्वितभक्तो जातः साधुपर्यन्तमप्राप्त एव, तत्र किं कर्तव्यमित्यत आह-तत्र'तस्मिन्निष्ठितभक्त पतगृहकेऽन्यद्भक्तं प्रक्षिप्यते, ततश्च यस्मिन् साधौ स निष्ठितः पतग्रहस्तत आरभ्य तेनैव क्रमण पुनर्धाम्यते, मात्रके वा यद्बालादीनां प्रायोग्यं गृहीतमासीत् तदिदानी उद्वरितं तदसंसृष्टं पतगृहे क्षिप्त्वा पतग्रहो यस्मिन् साधौ निष्ठितस्तस्मादारभ्य पुनर्धाम्यते । यत्पुनर्गुरोः शेष भुञ्जानस्य जातं तत्संसृष्टमपि प्रक्षिप्यते मण्डलीपतबहके, बालादीनां वा दीयते तदाचार्योद्धरितं, यत् पुनराचार्यव्यतिरिक्तानामुदरितम्-अधिकं जातं तन्न प्रक्षिप्यते मण्डलीपतहके संसृष्टं सत् । किञ्च, 'सुक्क'त्ति एकः शुष्केण भक्तेन पतगृहः, अपरः 'उल्ल'त्ति आर्गेण भक्तेन पतग्रहः, एवं | विज्ञाय ततः प्रक्षिपेद् द्रवं शुष्कभक्तपतगृहे, येन तोयप्रक्षेपेण संजातबन्धं तद्भक्तं सुखेनैव कवलैर्गृह्यते, अथ बहुलाभः |संजातः-प्रचुरं लब्धं गुडादि ततोऽसंसृष्टमेव ध्रियते, किमर्थम् ?, अभक्तार्थिकानामर्थे येन मनोज्ञं भवेत् । उक्ता ग्रहणशुद्धिः, अधुना भुञानस्य शोधिरुच्यते, सा चतुर्धा, एतदेवाह
॥१८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org