SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ भरे० ३२ आह—- तान्येव भुक्त्वा स्निग्धमधुराणि ततः करान् प्रोञ्छयति प्रोञ्छयित्वा च करान् 'मुंचऽहाकडए' त्ति यथाकृतानि- अपरिकर्माणि पात्रकाणि समुद्दिशनार्थं मुच्यन्ते । 'भायण'त्ति गयं, इदानीं ग्रहणद्वारप्रतिपादनायाह कुक्कुडिअंडगमित्तं अवा खुड्डागलंबणासिस्स । तुले गिoes अविगियवयणो य राइणिओ ॥ २८६ ॥ ( भा० ) `ततः पतङ्ग्रहकात्कवलं गृह्णन् कुक्कुड्यण्डकमात्रं गृह्णाति, अथवा 'खुड्डागलंबणासिस्स' क्षुल्लकेन लम्बनकेन - हस्तेन अशितुं शीलं यस्य स क्षुल्लकलम्बनाशी तत्तुल्यान् कवलान् गृह्णाति -स्वभावेनैव लघुकवलाशिनस्तुल्यान् कवलान् गृह्णाति 'अविकियवयणो य राइणिओ' अविकृतवदनो रत्नाधिकः, न भावदोषेण मुखमत्यर्थ बृहत्कवलप्रक्षेपार्थं निर्वादयति, किं तर्हि ?, स्वभावस्थेनैव मुखेनेति । अथवाऽयं ग्रहणविधिः गहणे पक्वेवंमि अ सामायारी पुणो भवे दुविहा । गहणं पायंमि भवे वयणे पक्खेवणा होइ ॥ २८७ ॥ ( भा० ) 'ग्रहणे' कवलादाने प्रक्षेपे च सामाचारी पुनरियं भवति द्विविधा, तत्र ग्रहणं पात्रकविषये भवेत् पात्रकात्कवलोत्क्षेपः, वदनविषयं च प्रक्षेपणं कवलस्य भवति । तत्र पात्रकात्कथं भक्षयद्भिर्गृह्यते ? इत्येतत्प्रदर्शयन्नाह— कडपयरच्छेएणं भोक्तवं अहव सीहखइएणं । एगेहि अणेगेहिवि वज्जेत्ता धूमइंगालं ॥ २८८ ॥ ( भा० ) तत्र कटकच्छेदेन भोक्तव्यं यथा कलिञ्जस्य खण्डलकं छित्त्वाऽपनीयते, एवमसावपि भुङ्क्ते, तथा प्रतरच्छेदेन वा For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy