SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥१८६॥ तथा वक्तव्यं, कारणे भोक्तव्यं, तथा 'उवरिए' त्ति अतिरिक्त विधिर्वक्तव्यः । अयं भोजनविधिः सुगमः । इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽह मंडलि अहराइणिआ सामायारीय एस जा भणिआ । पुत्रं तु अहाकडगा मुच्चंति तओ कमेणियरे ॥ २८३॥ (भा०) मण्डली कथमुपविशति ?, अत आह—यथारलाधिकतया सामाचारी चात्र कार्या, एषा 'योक्ता' भणिता, कतमा ?, "ठाणदिसिपगासणया" इत्येवमादिका साऽत्रापि तथैव द्रष्टव्या । उक्तं मण्डलीद्वारम् इदानीं भाजनद्वारप्रतिपादनायाह - 'पुत्रं तु अहाकडगा' 'पूर्व प्रथमं' 'यथाकृतानि' प्रतिकर्मरहितानि लब्धानि यानि तानि समुद्देशनार्थं मुच्यंते, एतदुक्तं भवति - प्रथममप्रतिकर्मा प्रतिग्रहको भ्राम्यते, ततः क्रमेण 'इतरे' अल्पपरिकर्मबहुपरिकर्माणि च मुच्यन्ते । 'भायण'त्ति गयं, इदानीं 'भोयण'त्ति व्याख्यायते - निमहुराणि पुढं पित्ताईपसमणट्टया भुंजे । बुद्धिबलवगुणट्ठा दुक्खं खु विकिंचिडं निद्धं ॥ २८४ ॥ ( भा० ) प्रथमार्द्धं सुगमं । किमर्थं स्निग्धमधुराणि पूर्व भक्ष्यन्ते ?, यतो बुद्धेर्बलस्य च वर्द्धनं भवति, तथा चाह - "घृतेन वर्द्धते मेधा" इत्यादि, बलवर्द्धनं च प्रसिद्धमेव, बलेन च वृद्धेन वैयावृत्त्यादि शक्यते कर्त्तु, दुःखं परिस्थापयितुं स्निग्धं - घृतादि भवति यतोऽसंयमो भवतीति ॥ अह होज निद्धमहुराणि अप्पपरिकम्मसपरिकम्मे हिं । भोत्तूण निद्धमहुरे फुसिअ करे मुंचऽहागड ॥ २८५॥ (भा०) अथ भवेत् स्निग्धानि मधुराणि च द्रव्याणि अल्पपरिकर्मसु बहुपरिकर्मजनितेषु च पात्रकेषु ततः को विधिरित्यत Jain Education International For Personal & Private Use Only दिक् नि. ५६४ श्लेष्मपात्रं नि. ५६५ भोज नं नि. ५६६ मण्डली भोजनक्र मः भा. |२८३-२८५ ॥१८६॥ www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy