SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Jain Education | ज्ञात्वा भिक्षागतानां निवर्त्तनकालं वसतिपालो 'भाजनं' नन्दीपात्रं तत्प्रत्युपेक्ष्योङ्ग्राहयति-सङ्घट्टितेनास्ते इत्यर्थः, किमर्थः १, परिसंस्थिताच्छद्रवग्रहणार्थम् एतदुक्तं भवति तत्रानीय साधवः पानकं प्रक्षिपन्ति, पुनश्च तत्र परिस्थितं - स्वच्छीभूतं सत् ततोऽन्यत्र पात्र के क्रियते येन तत्स्वच्छमार्यादीनां योग्यं भवति, पात्रकादिप्रक्षालनं च क्रियते । 'गच्छमासज'त्ति 'गच्छमाश्रित्य' गच्छस्य प्रमाणं ज्ञात्वा पात्रकमुद्राहयन्ति, एतदुक्तं भवति-यदि महान् गच्छस्ततः पानकगलनार्थ महाप्रमाणं पात्रकमुद्राहयति, तथा द्वे त्रीणि चत्वारि पञ्चादीनि यावत् । असई य नियत्तेसुं एक्कं चउरंगुलूणभाणेसु । पक्खिविय पडिग्गहगं तत्थऽच्छदवं तु गालेज्जा ॥ ५५५ ॥ अथ तत्र रक्षपालः समर्थो नास्ति यः पात्रकमुद्राहयति, अथवा 'असई यत्ति यदि नन्दीपात्रं नास्ति यत्रोदकमानीतं | स्वच्छीकरणार्थं क्रियते ततोऽसति तस्मिन् नन्दीपात्रे तदेकं पतद्भूहं प्रक्षिप्य, क्व ?, अत आह— 'चउरंगुलूणभाणेसु' चतुर्भिरङ्गलैरूनानि यानि भाजनानि तेषु प्रक्षिप्य पतग्रहं पुनस्तस्मिन् क्षणीभूते स्वच्छं द्रवं गालयेत्, अत्र चार्य नियमो द्रष्टव्यः यदुत - भिक्षां तावत्साधवः पर्यटन्ति यावत्पात्रकं चतुर्भिरङ्गुलैरूनमास्त इति । आह— किं पुनः कारणं तद्रवगलनं क्रियते ?, आयरियअभावियपाणगट्टया पायपोसधुवणट्ठा। होइ य सुहं विवेगो सुह आयमणं च सागरिए ॥ ५५६ ॥ आचार्यपानार्थं अभावितसेहादिपानार्थं च गलनं क्रियते । तथा पादधावनार्थं 'पोस'त्ति अधिष्ठानं तस्य प्रक्षालनार्थं For Personal & Private Use Only melibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy