SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रीओघनिर्युतिः द्रोणीया वृत्तिः ॥ १८४॥ Jain Educatio तथा भवति च सुखेन विवेकः - त्यागोऽतिरिक्तस्य तस्य पानकस्य, तथा सुखेन वाऽऽचमनं सागारिकस्याग्रतः क्रियते, एवमर्थं गलनं क्रियत इति । कियन्ति पुनः पात्रकाणि गलितद्रवस्य म्रियन्ते ? इत्यत आह एक्कं व दो व तिन्निव पाए गच्छप्पमाणमासज्ज । अच्छवस्स भरेजा कसहबीए विगिंजा ।। ५५७ ॥ एकं द्वे त्रीणि वा पात्रकाणि स्त्रियन्ते, गच्छप्रमाणं ज्ञात्वा चतुष्प्रभृतीन्यपि त्रियन्ते स्वच्छद्रवस्य तत्र च गलिते सति कस - कचवरं बीजानि च - गोधूमादीनि 'विगिश्चेत्' परित्यजेत् एवं तावत् पात्रकर्णेनापि उदकमपवृत्त्य पानकगलनं क्रियते । अथ पुनस्तत्र कीटिकामकोटिकादयः लवमाना दृश्यन्ते ततस्तत्र गलिते को विधिः । इत्यत आह मूहंगाई मक्कोडएहिं संसन्तगं च नाऊणं । गालेज छवएणं सउणीघरएण व दवं तु ॥ ५५८ ॥ मुईंगा - कीटिका मर्कोटकाश्च तैः संसक्तं ज्ञात्वा गालयेत् 'छबएणं' वंशपिटकेन शकुनिगृहकेन वा गालयेत् तद् द्रवं ॥ इय आलोय पविअगालिए मंडलीइ सहाणे । सज्झायमंगलं कुणइ जाव सबै पडिनियन्ता ॥ ५५९ ॥ 'इय'त्ति पूर्वोक्तविधिना आलोचिते सति प्रस्थापिते स्वाध्याये गलिते च पानके पुनश्च मण्डल्यां स्वस्वस्थाने उपविश्य स्वाध्यायमङ्गलं करोति - स्वाध्याय एव मङ्गलं स्वाध्यायमङ्गलं तत्करोति यावत् सर्वे साधुवः प्रतिनिवृत्ता भवन्तीति । एवं यदि सहिष्णवस्ततो यौगपद्येन भुञ्जते, अधासहिष्णवस्तत्र केचिद्भवन्ति ततः को विधिरित्याहकालपुरिसे व आसज्ज मत्तए पक्खिवितु तो पढमा । अहवावि पडिग्गहगं मुयंति गच्छं समासज्ज ॥ ५६० ॥ सचासहिष्णुग्रीष्मकालाद्यङ्गीकृत्य भवति, तत एव वा पुरुषः कदाचित् क्षुधार्त्तो भवति, तमाश्रित्य मात्रके प्रक्षिप्य Hemonal For Personal & Private Use Only अच्छद्रव नि. ५५५ ५५९ प्रथ मालिका नि. ५६० ॥ १८४॥ inelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy