________________
SEASENERAL
द्रोणीया वृत्तिः
॥१८॥
LORDCROCOCOMSASURROCOCCASS
एवमेकस्य साधो क्तव्ये विधिर्वर्णितः 'समासेन' सङ्केपेण, एवमेवानेकेषामपि साधूनां भोजने विधिः, यत्तु पुनर्ना- नात्वं भवति-यो भेदो यदतिरिक्तं तदहं वक्ष्ये । आह-किं पुनः कारणं मण्डली क्रियते ?, उच्यते
अतरंतबालवुड्डा सेहाएसा गुरू असहुवग्गो। साहारणोग्गहाऽलद्धिकारणा मंडली होइ॥५५३॥ | | अतरन्तः-अतिग्लानस्तत्कारणात्-तन्निमित्तं मण्डली भवति, यतस्तस्य ग्लानस्य यद्येकः साधुर्वैयावृत्त्यं करोति ततस्तस्य तत्रैवाक्षणिकस्य सूत्रार्थहानिर्भवति, मण्डलीबन्धे तु कश्चित्किञ्चित्करोति, एतदर्थ मण्डली क्रियते येन बहवः प्रतिजागरका भवन्तीति । बालोऽपि भिक्षामटितुमसमर्थः, स च बहूनां मध्ये सुखेनैव कथं नु नाम वर्तेत ?, अतो मण्डली भवति । वृद्धोऽप्येवमेव, सेहः-शैक्षकः, स चैकः सन् भिक्षाविशुद्धिं न जानाति ततस्तस्यानीय दीयते, आएसो-प्राघूर्णकस्तस्य चाग-1 तस्य सर्व एवोपकुर्वन्ति, स चोपकारः सर्वैरेव मिलितैः कर्तुं शक्यते न त्वेकेन, गुरोश्च सर्वैरेवोपकर्तुं शक्यते न त्वेकेन. सूत्रार्थपरिहानेः, तथा 'असहुवग्गो'त्ति असमर्थों-राजपुत्रादिः स च भिक्षामटितुं सुकुमालत्वान्न शक्नोति ततश्च सर्व एव मिलिता उपकुर्वन्ति, तस्मात् 'साधारणोग्गहा' साधारणश्चासावुपंग्रहश्च साधारणोपग्रहस्तस्मात् साधारणोपग्रहात्कारणान्मण्डली कर्त्तव्या,अथवा मण्डलीविशेषणमेतत् , उपगृह्णातीत्युपग्रहा-भक्तादिःस साधारणः-तुल्यो यस्यां सा साधारणोपग्रहा मण्डली भवति । 'अलद्धिकारणा मंडली होइ'इति कदाचित्कश्चित्साधुरलब्धिको भवति ततश्च तेऽन्ये साधवस्तस्मै आनीय प्रयच्छन्ति अत एतत्कारणान्मण्डली भवति । इदानी भिक्षागतानां साधूनां यो वसतिरक्षपालस्तेन किं कर्त्तव्यमित्यत आहनाउ नियणकालं वसहीपालो य भायणुग्गाहे । परिसंठियच्छद वगेण्हणट्ठया गच्छमासजा ॥५५४ ॥ .
गुर्वालोककारणानि भा.२८० नि.५५२ मण्डलीकारणानि नि. | ५५३ वसतिपालकृत्यं नि. ५५४
|॥१८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org