________________
ठाणदिसिपगासणया भायणपक्खेवणे य गुरुभावे । सत्तविहो आलोको सयावि जयणा सुविहियाणं ॥ ५५० ॥
तैश्चामण्डलिसमुद्दिश कैर्निष्क्रमप्रवेशवर्जिते स्थाने भोक्तव्यं, तथा कस्यां दिशि आचार्यस्योपवेष्टव्यमित्येतद्वक्ष्यति, तथा सप्रकाशे स्थाने भोक्तव्यं, भाजने च विस्तीर्णमुखे भोक्तव्यं, प्रक्षेपणं च कवलानां कुर्कुट्यण्डकमात्राणां कर्त्तव्यं, तथा गुरोचक्षुः पथे भोक्तव्यं, तथा भावो ज्ञानादि तत्संवहनार्थं भोक्तव्यमित्येतद्वक्ष्यति । एवमयं सप्तविध आलोकः, सदाऽपि च यतनातस्मिन् सप्तविधेऽप्यालोके यतना सुविहितानाम् । इदानीं भाष्यकारो व्याचष्टे प्रतिपदं तत्राद्यावयवव्याचिख्यासयाऽऽह— निक्खमपवेसमंडल सागारियठाणपरिहिंयट्ठाइ । मा एक्कासणभंगो अहिगरणं अंतरायं वा ॥ २७५ ॥ ( भा० )
निष्क्रमप्रवेशौ वर्जयित्वा भोजनार्थमुपविशंति, तथा मण्डलीप्रवेशं च वर्जयन्ति, तथा सागारिकस्थानं च परिहृत्य भुञ्जते, | मा भूत् सागारिके प्राप्ते सति एकाशनभङ्गः स्यादिति, 'अधिकरणं' राटिर्वा भवति अन्येन प्रत्रजितेन सह अस्थाने उपविष्टस्य भुञ्जतोऽन्तरायं च भवति, कथं १, स साधुरन्यस्य सत्के स्थाने भुङ्क्ते उपविष्टः सोऽपि साधुरागतः प्रतीक्षमाण आस्ते, एवं चान्तरायं कर्म बध्यते । इदानीं दिशा द्वारप्रतिपादनायाह
पचरसिपरं मुहपट्टिपक्ख एया दिसा विवज्जेत्ता । ईसाणग्गेईय व ठाएज गुरुस्स गुणकलिओ ॥ २७६ ॥ ( भा० ) सोऽभिमुखं प्रत्युरसं - गुरोरभिमुखं वर्जयित्वेत्यर्थः, पराङ्मुखश्च नोपविशति गुरोः, तथा पृष्ठतश्च गुरोर्नोपविशति, पक्षके च नोपविशति, एवमेता दिशो वर्जयित्वा ईशान्यां दिशि गुरोराग्नेय्यां वा दिशि 'तिष्ठेत्' उपविशेोजनार्थं | गुणकलितः साधुर्यः । इदानीं 'पगासणय'त्ति व्याख्यायते -
Jain Education E
For Personal & Private Use Only
elibrary.org