________________
श्रीओषनिर्युक्तिः द्रोणीया
वृत्तिः
॥१७८॥
ताहे
य
दुरालोइय भत्तपाण एसणमणेसणाए उ । अङ्कुस्सासे अहवा अणुग्गहादीउ झाला ||२७४ || (भा० ) ततः कदाचिद्दुरालोचितं भक्तपानं भवति, 'नट्टं वलं चलं' इत्येवमादिना प्रकारेण, तथैषणादोषः कदाचित् सूक्ष्मः कृतो भवति, अनेषणादोषो वा कश्चिदजानता, ततश्चैतेषां विशुद्ध्यर्थमष्टोच्छ्वासं - नमस्कारं ध्यायेत्, अथवा 'अनुग्रहादी'ति अथवाऽनुग्रहादि ध्यायेत्, “जइ मे अणुग्गहं कुजा साहू हुज्जामि तारिओ" इत्येवमादि गाथाद्वयं कायोत्सर्गस्थो विशुद्ध्यर्थं ध्यायेत्, उत्सार्य च कायोत्सर्गे ततः स्वाध्यायं प्रस्थापयेत् । एतदेवाह -
विणएण पट्टवित्ता सज्झायं कुणइ तो महत्तागं । पुवभणिया य दोसा परिस्समाई जढा एवं ॥ ५२१ ॥
विनयेन प्रस्थाप्य स्वाध्यायं योगविधाविव ततः स्वाध्यायं मुहूर्त्तमात्रं करोति, जघन्यतो गाथात्रयं पठति, उत्कृष्टतश्चतुदशापि सूक्ष्माणप्राणलब्धिसंपन्नोऽन्तर्मुहूर्त्तेन परावर्त्तयति, एवं च कुर्वता पूर्वभणिता दोषा 'धातुक्षोभे मरण' मित्येवमादयः तथा परिश्रमादयश्च दोषा 'जढाः ' त्यक्ता भवन्तीति ॥
दुविहो य होइ साहू मंडलिउवजीवओ य इयरो य । मंडलिमुवजीवंतो अच्छइ जा पिंडिया सबे ॥ ५२२ ॥ स च साधुर्द्विप्रकारो - मण्डल्युपजीवकः इतरश्च - अमण्डल्युपजीवकः, तत्र यो मण्डल्युपजीवकः साधुः सोऽटित्वा 'भिक्षां तावत्प्रतिपालयति यावत् 'पिण्डिताः' एकीभूताः सर्वेऽपि साधवो भवन्ति, पुनश्च स तैः सह भुङ्क्ते ।
इयरोवि गुरुसगासं गंतूण भणह संदिसह भंते ! । पाहुणगखवगअतरंतबालबुडाणसेहाणं ॥ ५२३ ॥
Jain Education International
For Personal & Private Use Only
भक्तदर्शने वर्ध्वाद्यालो
कः भा. २७१-२७४ स्वाध्यायः
नि. ५२१ मण्डलीनि.
|५२२-५२३
॥१७८॥
www.jainelibrary.org