________________
प्रमज्य 'ऊ पीठीः 'अधों भुवि 'तिर्यक्' तिरश्चीनं 'मत्युपेक्षेत निरूपयेत् 'सर्वतः समन्ताच्चसृष्बपि- दिव सर्वनैरन्तर्येण, ततः पतनहं हस्ते कृत्वा भक्तादि गुरोर्दर्शयतीति वक्ष्यति भाष्यकृत् । इदानीमेतामेव गाथां भाष्यकृदाह, तत्र गुरुदोषत्वात्प्रथममूर्दादीनि त्रीणि पदानि व्याख्यानयन्नाहउहं पुप्फफलाई तिरियं मजारिसाणडिभाई। खीलगदारुगआवडणरक्खणडा अहो पेहे ॥ २७१(भा)
उद्यानादौ आवासितानां सतां पुष्पफलादिपातमूई निरूप्य ततो गुरोर्दर्शयति, तिर्यङ्मार्जारश्चडिम्भानालोक्यालोचयति, मा भूत्ते आगच्छन्तस्तत्पात्रमुत्प्रेर्य पातयिष्यन्ति, आदिशब्दात्काण्डं वा केनचिद्विक्षिप्तमायाति, अतस्तिर्यग् निरूप्यते, तथाऽधो निरूपयति, किमर्थं , कदाचित्कीलको भवति, तत्रापतनम्-आस्खलन मा भूदिति, अतोऽधो निरूप्य ततो भक्तादि दर्शयति । इदानीं 'सीसं सपडिग्गहं पमजेत्त'त्ति व्याख्यानयति
ओणमओ पवडेजा सिरओ पाणा सिरं पमज्जेजा। एमेव उग्गहंमिवि मा संकुडणे तसषिणासो॥२७२॥ (भा०) | हस्तस्थे पतनहेऽवनमतः शिरसः प्रपतेयुःप्राणिनः कदाचिदतः शिरःप्रथममेव प्रमार्जयेत्, एवमेव पतनहे प्रमार्जन कृत्वा प्रदर्शयेद्भक्तादि, किं कारणं ?-'मा संकुडणे तसविणासो'त्ति मा भूत्सङ्कोचने सति पटलानां वसादिविनाशो भविष्यत्यतः प्रमृज्य पतब्रहं भक्तं प्रदर्शयतीति ॥ काउं पडिग्गहं करयलंमि अद्धं च ओणमित्ताणं । भत्तं वा पाणं वा पडिसिज्जा गुरुसगासे ॥ २७३॥ (भा०)
कृत्वा पतद्ब्रहं करतले अर्धं च शरीरस्यावनम्य पुनर्भक्तं वा पानं वा प्रदर्शयेत् गुरुसगासे इति ॥
SAMASISARURAISAISANSAS
Jain Education Internasional
For Personal & Private Use Only
ww.jainelibrary.org