________________
नृत्यन्नालोचयति वलन्नालोचयति अंगानि चलयन्नालोचयति, तथा भाषमाणो गृहस्थभाषया नालोचयति, किं तर्हि :संयतभाषयाऽऽलोचयति, तद्यथा-सुयारियाउ इत्येवमादि, तथा चालोचयन् मूकेन स्वरेण नालोचयति मिणमिणतं. तथा ढ़हरेण च स्वरेण-उच्चै लोचयति, एवंविधं स्वरं वर्जयेत् । किं पुनरसावालोचयतीत्यत आह-आलोचयेत्सुविहितो हस्तमुदकस्निग्धं, तथा 'मात्रक' गृहस्थसत्कं कडुच्छुकादि-उदकार्दादि, तथा गृहस्थया कतमं व्यापारं कुर्वत्या भिक्षा दत्तेत्येतच्चालोचयति । इदानीमेतामेव गाथां व्याख्यानयन्नाह-करस्य तथा पादस्य भ्रवः शिरसः अक्ष्णः ओष्ठस्य च,8 एवमादीनामङ्गानां सविकारं चलनं नर्त्तनं नाम, एतत् कुर्वन्नालोचयति, वलनं हस्तस्य शरीरस्य कुर्वन्नालोचयति, तथा चलनं कायस्य करोति मोटनं तत्कुर्वन्नालोचयति,तथा भावतश्चलनमन्यथा गृहीतमन्यथाऽऽलोचयति अडवियडु॥आलोचयन् गृहस्थभाषया नालोचयति, यथा “सुग्गीओ(लंगणीओ)लद्धाओ मंडया लद्धा" इत्येवमादि, किन्तु संयतभाषयाss' लोचनीयं "सुयारियाउ" इत्येवमादि, मूकस्वरं मनाक् ढहरं च महान्तं स्वरं वर्जयन्नालोचयति, किमालोचयति ?-'व्यापारगृहस्थयोः संबन्धिनं, तथा 'संसृष्टम्' उदकार्दादि, 'इतरं' असंसृष्टं, किं तत् १-कर संसृष्टमसंसृष्टं च उदकेन, तथा 'मात्रक' गृहस्थसत्कं कुण्डलिकादि उदकसंसृष्टमसंसृष्टं चेति, एतदालोचयेत् । एयद्दोसविमुकं गुरुणा गुरुसम्मयस्स वाऽऽलोए। जह गहियं तु भवे पढमाओ जा भवे चरिमा ॥५१७॥ ___एभिर्दोषविमुक्तमनन्तरोक्तैर्भेक्षमालोचयेद्गुरोः समीपे वा यो गुरोः संमतो-बहुमतस्तस्य समीपे आलोचयेत् , कथमा
Jain Educatio
n
al
For Personal & Private Use Only
www.jainelibrary.org