________________
करोत्यात्मना चोत्कृष्टतरं च घृतपूर्णादि मध्याहे भक्षयत्येकाकिनी ॥ तृणकाष्ठहारकाणां न किञ्चिद्ददाति दासवर्गस्य | तथा प्रेष्यो यः कश्चित्प्रेष्यते तद्वर्गस्य च न किञ्चिद्ददाति, न च 'प्रेषणे' कार्ये नियुक्त कर्मकरान् , ततश्च भोजनादिना 5 विना 'पलाणा' नष्टाः हृतं च यत्किञ्चिद्गृहे रिक्थमासीत्, एवं हानिर्जाता गेहस्य, तत्रायं लौकिकोऽप्रशस्तो भावः । इदानी लौकिकप्रशस्तभावप्रतिपादनायाह-द्वितीयस्य या भार्यासा प्रेष्यवर्ग व्यापारयित्वा प्रेषणा कार्ये कर्मणि च विविधे काले च तेषामाहारं ददाति स्वयं च काले आहारमुपजीवति । अयं च लौकिकोऽत्र प्रशस्तो भाव उक्तः, इदानीं लोकोत्तराप्रशस्तप्रतिपादनायाहवन्नबलरूवहेउं आहारे जो तु लाभि लभते । अतिरेगं न उ गिण्हइ पाउग्गगिलाणमाईणं ॥ ४९९ ॥ जह सा हिरण्णमाईसु परिहीणा होइ दुक्खआभागी। एवं तिगपरिहीणो साहू दुक्खस्स आभागी॥५०॥ आयरियगिलाणट्ठा गिण्ह न महंति एव जो साहू।नो वन्नरूवहेलं आहारे एस उ पसत्थो ॥५०१॥ ___ वर्णबलरूपहेतुमाहारयति यश्च लाभे क्षीरादौ लभ्यमाने सति प्रायोग्यं ग्लानादीनामतिरिक्तं न गृह्णाति । यथा सा गृहस्था हिरण्यादिपरिहीना संजाता दुःखभागिनी च जाता एवं साधुरपि त्रिकेण-ज्ञानदर्शनचारित्रलक्षणेन हीनो दुःखस्य भागी भवति । उक्तो लोकोत्तरोऽप्रशस्तः, इदानीं लोकोत्तरप्रशस्तभावदर्शनायाह-आचार्यादीनामर्थाय गृह्णाति न ममेदं योग्यं किन्त्वाचार्यादेः, एवं यः साधुर्यहाति, शेषं सुगम । उक्तो लोकोत्तरः प्रशस्तो भावः, उक्तं भावद्वारम् ॥
उग्गमउप्पायणएसणाए बायाल होति अवराहा । सोहेउं समुयाणं पडुप्पन्ने वच्चए वसहिं ॥ ५०२॥
Join Educati
o nal
For Personal & Private Use Only
nelibrary.org