SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ अत्र हस्ते सस्निग्धं किञ्चित् प्रम्लानं-मनाक्शुष्कं तथा 'अवाण'ति आव्यानमुद्वानं किञ्चित्सस्निग्धं 'किश्चिच्च द्र होअणुचाणं ति किश्चिच्च स्निग्धमनाव्यानमनुद्धानम्, एवं त्रिविधमप्येतत्सर्व प्रायेण सस्निग्धमुच्यते, एवमेतद्विभाव्य | तत एकैकशुष्कभागवृद्ध्या ग्रहणं कर्त्तव्यं पूर्वानुपूर्व्या, तथा एकैकशुष्कभागहान्या वा पश्चानुपूर्व्या गृह्णाति भिक्षां । सा एकैकभागवृद्धिः कथं कर्तव्येत्यत आह सत्तविभागण करं विन्भाइत्ताण इत्थिमाईणं । निचुन्नयइयरेवि य रेहा पवे करतले य ॥ ४८९ ॥ 'सप्त विभागान्' सप्तधा 'करं' हस्तं 'विभज्य' विभागीकृत्य, केषां ?-रूयादीनां, ते च विभागा एतानङ्गीकृत्य कर्तव्याः, के च ते ?-निनोन्नतेतरे' तत्र निम्नं त्वङ्गुलिपर्वरेखा उन्नतमङ्गलिपर्वाणि इतरत्-करतलं नोन्नतं नापि निम्नं । इदानीं केन शुष्केन प्रदेशेन कः प्रदेशः प्रम्लानो भवति ? केन वा अम्लानेन प्रदेशेन कः सार्द्रः प्रदेशो भवतीत्यस्यार्थस्य ज्ञापनार्थमाह जाहे य उन्नयाई उबाणाई हवंति हत्थस्स । ताहे तलपवाणा लेहा पुण होतऽणुवाणा ॥ ४९० ॥ यदा उन्नतानि हस्तस्थानानि उद्धानानि भवन्ति तदा हस्ततलं प्रम्लानं-मनाक् शुष्कं भवति रेखास्तु भवन्त्यनुद्धानाः इदानीं शुष्कहस्तस्थानानामेकैकवृद्ध्या यथा यस्मिन् काले ग्रहणं भवति तथा प्रदर्शयन्नाह तरुणित्थि एकभागे पवाणे होइ गहण गिम्हासु । हेमंते दोसु भवे तिसु पचाणेसु वासासु ॥४९१ ।। तरुण्याः स्त्रिय उन्नतसप्तमैकभागे प्रम्लाने शुष्के सति उष्णकाले गृह्यते भिक्षा यतः सोष्मतया कालस्य चोष्णतया SARKARANASICS Jain Educatio n al For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy