________________
Jain Education
गृहस्थयोः पादस्योपरि पतितेन भण्डकेन वधो भवति, एकतरस्य वा वधो भवति, तथा दाहश्च अंत्युष्णे तस्मिन् द्रव्ये पतिते सति भवति 'एमेव'त्ति उभयोरन्यतरस्य वा ॥ इदानीं 'अचियत्ते'त्ति व्याख्यानयन्नाह
बहुगहणे अचियत्तं वोच्छेओ तदन्न दव तस वावि । छक्कायाण य वहणं अहमत्ते तंमि मत्तंमि ॥ २६९ ॥ (भा०)।
बहुग्रहणे तस्य घृतादिद्रव्यस्य 'अचियत्तं' अप्रीतिर्भवति तस्य तद्गृहपतेर्वा, व्यवच्छेदो वा तदन्यस्य द्रव्यस्य भवतितस्माद्- घृतादेः अन्यद् - क्षीरगुडादि तस्य व्यवच्छेदो भवति, तस्य वा घृतादेर्द्रव्यस्य वा व्यवच्छेदो भवतीति, तथा षट्कायानां वा हननं भवति 'अतिमात्रे' बृहत्प्रमाणे 'मात्र के' स्थाल्यादौ गृहीते सति । उक्तं गुरुकद्वारं, त्रिविधेतिद्वारंप्रतिपादयन्नाह -
तिविहो य होइ कालो गिम्हो हेमंत तह य वासासु । तिविहो य दायगो खलु थी पुरिस नपुंसओ चैव ॥ ४८३ ॥ एक्किक्कोवि अतिविहो तरुणो तह मज्झिमो य थेरो य । सीयतणुओ नपुंसो सोम्हित्थी मज्झिमो पुरिसो ॥ ४८४ ॥
कालस्त्रिविधो भवति, तद्यथा - ग्रीष्मो हेमन्तो वर्षा च तत्र त्रिविधेऽपि काले दाता त्रिविध एव भवति, स्त्री पुमान्नपुंसकं चेति ॥ पुनः स एकैकख्यादिदाता त्रिविधो भवति - तरुणो मध्यमः स्थविरश्च । इदानीं नपुंसकादीनां स्वरूपप्रतिपादनायाह- शीतलतनुर्नपुंसको भवति, 'सोम्हित्थि'त्ति सोष्मा स्त्री भवति, मध्यमश्च पुरुषो भवति-नाप्युष्णो नातिशीतल इति ॥ पुरकम्मं उदउल्लं ससणिद्धं तंपि होइ तिविहं तु । इक्विकंपि य तिविहं सचित्ताचित्तमीसं तु ॥ ४८५ ॥
national
For Personal & Private Use Only
winelibrary.org