________________
पतितगुरु कद्वारे नि४८१-४८२
भा. २५९.२६०
वृत्ति
॥१६९॥
ROGREGAOACHAR
वति, 'महल्लया' इति महत्प्रमाणं वा तदहस्थस्य भाजनं तस्योत्क्षेपे सति दोषा भवन्ति, अथवा 'महल्लया' इति महता भण्ड-1 केन दीयतामित्येवं कदाचिदसौ साधुणति, ततश्च लुब्धता साधोरुपजायते, तथा वधश्च-तस्यैव साधोः पादस्योपरिभण्डकेन पतितेन वधोभवति, तथा 'दाह'त्ति दाहो वा भवति यदि तदुष्णं भण्डकं भवति,अचियत्तं वा भवति तस्यैव गृहस्थस्य तद्गृहपतेवो 'अचियत्तं वा' अप्रतीतिर्वा भवति,महाप्रमाणकेन भण्डकेन दीयमाने सति व्यक्च्छेदो वा तद्रव्यस्यान्यद्रव्यस्य वा भवति, षट्कायवधश्च भण्डकपतने सति भवति, एवं गुरुके भण्डके एते दोषा भवन्ति । एतामेव गाथां भाष्यकृदाह, तत्राद्यावयवमाह
गुरुदत्वेण व पिहि सयं व गुरुयं हवेज जं दवं।
उक्खेवे निक्खेवे कडिभंजण पाय उवरिं वा ॥ २५९ ॥ (भा०)॥ गुरुद्रव्येण वा 'पिहितं' घहितं तद्रव्यं भवेत् , स्वयं वा तद्रव्यं गुडपिण्डादि गुरुकं भवेत्, ततश्च तस्य 'उत्क्षेपे' उत्पा|टने निक्षेपे च पुनर्मोचने सति कटिभङ्गो भवति,पादस्योपरिपतेत्ततश्चात्मविराधना भवति । 'महल्लया' इति व्याख्यानयन्नाह
महल्लेण देहि मा डहरएण भिन्ने अहो इमो लुद्धो । उभए एगतरवहो दाहो अच्चुण्ह एमेव ॥२६०॥ (भा०)॥ ___ कश्चित्साधुः कडुच्छिकया ददती स्त्रियं एवं ब्रूते-यदुत 'महल्लेण' बृहता भाजनेन स्थाल्यादिना देहि, मा 'डहरकेण' लघुना प्रयच्छ कडुच्छुकादिना, ततः सा तथैव करोति, अशक्तवत्याश्च कदाचित्तद्भाजनं भज्यते ततो भिन्ने सति तस्मिन् भाजने गृहस्थ एवं भणति-यदुताहो ! अयं साधुर्महालुब्धः येन बृहता भाजनेन दीयमानं गृह्णाति, तत 'उभयस्य' साधु
॥१६ ९||
dal Educa
t ional
For Personal & Private Use Only
www.jainelibrary.org