________________
ङ्कितमेव भवति यदुतानेन गृहस्थेन पुरः कर्मादि कृतं तत्र वारयित्वा निर्गच्छति, अथाशङ्कितं भवति किमनेन कृतं पुरः कर्मादि न वेतीत्थमाशङ्कायां निरूपयति प्राप्तां सतीं गृहस्थाम् । उक्तं ग्रहणद्वारम् इदानीं आगमनद्वारप्रतिपादनायाह - आगमणदायगस्सा हेट्ठा उवरिं च होइ जह पुत्रिं । संजमआयविराहण दिहंतो होइ वच्छेण ॥ ४७७ ॥
भिक्षां गृहीत्वा साध्वभिमुखमागच्छन्त्या अधस्तादुपरि च निरूपणीयमागमनं यथा पूर्व गमने संयमात्मविराधने निरूपिते एवमत्रापि संयमात्मविराधने निरूपणीये । उक्तमागमनद्वारं, 'पत्ते' त्ति द्वारप्रतिपादनायाह- 'दिहंतो होह वत्थंमि' अत्र प्राप्तायां भिक्षायां दात्र्यां वत्सकेन दृष्टान्तो वेदितव्यः । जहा एगस्स वाणियस्स वच्छओ तद्दिवसं तस्स संखडी न कोइ तस्स भत्तपाणियं देइ, मज्झण्हे वच्छएण रडियं, सुण्हाए से अलंकियविभूसियाए दिण्णं भत्तपाणं, जहा तस्स वच्छस्स चारीए दिट्ठी ण महिलाए, एवं साहुणावि कायवं । अहवा
पत्तस्स उ पडिलेहा हत्थे मत्ते तहेव दवे य । उदउल्ले ससिणिडे संसत्ते चैव परियत्ते ॥ ४७८ ॥ प्राप्तस्य गृहस्थस्य प्रत्युपेक्षणा कार्या हस्ते, किमयं हस्तोऽस्य उदकाद्यार्द्रा न वेति, तथा मांत्रं च कुण्डलिकादि गृहस्थसत्कं निरूपयति यत्र गृहस्था भिक्षामादाय निर्गता, द्रव्यं च मण्डकादि निरूपयति संसक्तं न वेति । एवं पसद्दारं निज्जुत्तिकारेण वक्खाणियं, इदानीं नियुक्तिकार एव परिवत्तेत्तिद्वारं व्याख्यानयन्नाह - 'परिवर्तिते' अधोमुखे कृते सति गृहस्थेन मात्रके कुण्डिकादौ यद्युदका दृश्यते सस्निग्धं वोदकेनैव संसक्तं च- त्रसयुक्तं ततस्तस्मिन्नेवंविधे मात्रके परिवृत्ते सति दृष्ट्वा न गृह्यते । इदानीं भाष्यकारः 'पत्ते' त्ति व्याख्यानयन्नाह
Jain Education atonal
For Personal & Private Use Only
www.ainelibrary.org