________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥१६७॥
कुलं वा द्वारं निर्गच्छता प्रविशता वा लोकेन, तथा 'इडरण' मंत्रीसंबन्धिना 'पत्थिकया' बृहत्पिट्टिकया 'अलिन्देन ' कुण्डकेन वा स्थगितं द्वारं भवेत्, 'तहिं वावि'त्ति तत्र वा इडुरादौ स्थगितं तत्तद्रव्यं भवेत्ततश्च न गृह्यते ॥ एतेहऽदीसमाणे अग्गहणं अह व कुज्ज उवओगं । सोतेण चक्खुणा घाणओ य जीहाऍ फासेणं ॥ २५४ ॥ भा०) 'एभिः' अनन्तरोदितैः 'अदृश्यमाने' अचक्षुर्दर्शने सत्यग्रहणं भवति, अथवाऽदृश्यमानेऽप्युपयोगं कुर्यात, कैरित्याह-श्रोत्रेण चक्षुषा घ्राणेन जिह्वया स्पर्शेन चेति ॥ कथं श्रोत्राद्युपयोगं करोति ? -
हत्थं मत्तं च धुवे सद्दो उदकस्स अहव मत्तस्स । गंधे व कुलिंगाई तत्थेव रसो फरिसबिंदू ॥ २५६ ॥ ( भा० )
हस्तं मात्रं वा कुण्डलिकादि सा गृहस्था प्रक्षालयेत्ततश्चोदकस्य झलज्झलाशब्दो भवति, अथवा मात्रकस्य -कुण्डलि - | कादेः प्रक्षाल्यमानस्य खसखसाशब्दो भवति, तथा घ्राणेनोपयोगं करोति, कदाचित्कुलिङ्गः- त्रीन्द्रियादिमर्दितो भवेदागच्छन्त्या, एतच्च गन्धेन जानाति अशोभनेन, ततश्च न गृह्णाति, यत्र गन्धस्तत्र रसोऽपीति, तथा स्पर्शेन चोपयोगं ददाति, कदाचिदुदकबिन्दुर्लगति शीतलः, चक्षुषा तूपयोगं ददाति गमनागमने प्राप्तस्य च द्रव्यस्य भाजनस्य वा हस्तस्य वा, मा भूदुदकसंस्पृष्टं स्यात् ।
सो होइ दिट्ठगाही जो एते जुंजई पदे सधे । निस्संकिय निग्गमणं आसंकपर्यभि संचिक्खे ॥ २५६ ॥ ( भा० ) स एवंविधो दृष्टग्राही भवति य एतानि पदानि स्थानान्तराणि पूर्वोक्तानि प्रयुङ्क्ते उपयोगपूर्वकं सर्वाणि, अथ निःश
Jain Education Inadiy
For Personal & Private Use Only
ग्रहणद्वारे नीचद्वारोधारादिनि भा० २५१-२५६
॥१६७॥
helibrary.org