SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ सुरापानेन यो मत्तस्तस्य हस्ताद्भिक्षा न गृह्यते, किं कारणं ?, यतो मत्तो भिक्षां प्रयच्छन् कदाचिदवयासं करोतिआलिङ्गतीत्यर्थः कदाचिद्भाजनं - पात्रकं भिनत्ति वमनं वा छर्दनं करोति, तथाऽशुचिरितिकृत्त्वा लोक उड्डाहो भवतिप्रवचनोपघातः । द्वारम् । इदानीं तृतीयद्वारमुच्यते - व्याक्षिप्तचित्ते दीप्तचित्ते यक्षाविष्टे एत एव दोषा आलिङ्गनभाजनभेदवमनाशुचिप्रभृतयो भवन्तीति । इदानीं द्वारपश्चकप्रतिपादनायाह करच्छिन्न असुइ चरणे पडणं अंधिल्लए य छक्काया । नियलासुद्द पडणं वा तद्दोसी संकमो असुइ ॥ २४५ ॥ (भा० ) छिन्नकरो यदि भिक्षां ददाति ततो न गृह्यते यतोऽशुचिदोषो लोके भवति । द्वारं । तथा यस्यापि चरणश्छिन्नस्ततोऽपि न गृह्यते यतः तस्य प्रयच्छतः पतनं भवति । द्वारं । अन्धादपि न गृह्यते यतोऽसौ प्रयच्छन् षट् कायान् व्यापादयति । दारं । निगडितादपि न गृह्यते भिक्षा, यतोऽसावशुचिर्भवति, पतनं च तस्य निगडबद्धस्य स्यात् । दारं । त्वग्दोषदूषितस्यापि हस्तान्न गृह्यते यतः कदाचित्कुष्ठसङ्गमः स्यात् अशुचिश्वासौ वर्त्तते । दारं । सिंघणा उ उद्वंति निवेसमाणी य । बालाई मंसउंडग मज्जाराई विराहेजा ॥ २४६ ॥ ( भा० ) गुर्विणीस्तान गृह्यते यतस्तस्या गर्भे संघट्टनं भवति, कथम् ?, उत्तिष्ठन्त्याश्चोपविशन्त्याश्च । दारं । बालवत्साया अपि हस्तान्न गृह्यते भिक्षा, यतो बालं मुक्त्वा यदि भिक्षां ददाति ततस्तं बालं 'मंसुण्डकादिबुद्ध्या' मांसपिण्डादिबुद्ध्या, आदिग्रहणान्नवनीतबुद्ध्या वा मार्जारादिर्विराधयेत् । दारं । इदानीं द्वारपञ्चकप्रतिपादनायाह— बीओ संघट्टण कंडणपीसंत भजणे डहणं । कत्तंती पिंजंती हत्थं लित्तंमि उद्गवहो ॥ २४७ ॥ भा० ) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy