________________
SASSAASAASAASAASAS
बेंटल पुट्ठो न याणे आयन्नातीणि वज्जए ठाणे । सुद्धं गधेस उंछ पंचाइयारे परिहरंतो॥४२४ ॥ वेण्टलं-निमित्तादि पृष्टः सन्नेवं भणति-न जाने, एवं भणता द्वितीयमहाव्रतयतना कृता भवति । इदानीं तृतीयमहा-12 व्रतयतनां दर्शयन्नाह-'आयण्णाईणि वजए ठाणे' तत्र भिक्षार्थ प्रविष्ट आकीर्णादिस्थानं परिवर्जयेत् , यत्र हिरण्यादि विक्षिप्तमास्ते तदाकीर्णस्थानं तच्च साधुना वर्जनीयं, एवं तृतीयमहाव्रतयतना कृता भवति । इदानीं पञ्चममहाव्रतयतना प्रतिपादयन्नाह-'शुद्धम्' उद्गमादिदोषरहितं 'गवेषयति' अन्वेषयति 'उञ्छं' भकं पञ्चाप्यतीचारान् रक्षन् । उक्ता पञ्चममहाव्रतयतना, चतुर्थमहाव्रतयतना तूक्तैव, “इत्थिग्गहणे धर्म" इत्येवमादिना, उक्ता सङ्घाटकयतना, इदानीमुपकरणयतनाप्रतिपादनायाह___ जहन्नेण चोलपट्टो वीसरणालू गहाय गच्छेज्जा । उस्सग्ग काउ गमणे मत्सयगहणे इमे दोसा ॥ ४२५॥ | उत्सर्गस्तावद्भिक्षार्थ गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यं, यस्तु विस्मरणालुः स जघन्येन चोलपट्टकमादाय गच्छति, उपलक्षणं चात्र चोलपट्टकोऽन्यथा पात्रकं पटलानि रजोहरणं दण्डकं कल्पद्वयं च गृहीत्वा गच्छति । उक्तोपकरणयतना, इदानी मात्रकयतनां प्रतिपादयन्नाह-मात्रक गृहीत्वा गन्तव्यं, अगृहीत्वा वोत्सर्गमिति-उपयोगं कृत्वा ब्रजति, अथ मात्रकं न गृह्णाति गच्छंस्ततश्च मात्रकाग्रहणे एते च दोषाः वक्ष्यमाणाः, अत्र च यदुत्सर्गग्रहणं कृतं तद्विधिप्रदर्शनार्थ न तु पुनः स्वस्थानमिति । इदानी मात्रकाग्रहणे दोषान् प्रदर्शयन्नाह- .
Jain Education
!
For Personal & Private Use Only
Aahelibrary.org