SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ SUSISUUSASUSOSASA इदानीं यदुक्तं कालद्वये प्रवेष्टव्यं तत्प्रतिपक्ष उच्यते, ग्लानक्षपकपाघूर्णार्थमतिप्रत्यूषस्यपि प्रविशति तथा 'अतिच्छिए वावित्ति अतिक्रान्तायामपि भिक्षावेलायां प्रविशति बहुशः॥ अणुकंपापडिसेहो कयाइ न हिंडेज वा न वा हिंडे । अणभोगि गिलाणट्ठा आवस्सगऽसोहइत्ताणं॥४१५॥ दारं | स च प्रत्यूषस्येव प्रविष्टः कस्मिंश्चिद् गृहे ग्लानार्थ, लब्धं च तत्तेन तत्र, ततश्च गृहपतिः पुनर्भणति अनुकम्पया, यदुत पुनरपि त्वया ग्लानार्थमस्यां वेलायामागन्तव्यं, ततश्चासौ साधुः प्रतिषेधं करोति, कथं ?, तं गृहस्थमेवं भणति, यदुत प्रत्यूषसि श्वः कदाचिदहं हिंडेजा कदाचिन्न हिंडेजत्ति, एवं भणंतेण आगंतुका उग्गमदोसा परिहरिया हवंति न च प्रतिवेधः कृतो भवति । उक्ता कालयतना, अधुनाऽऽवश्यकयतनोच्यते-कदाचिदसौ साधुरनाभोगेन 'आवश्यक' कायिका-| व्युत्सर्गलक्षणमकृत्वा ग्लानार्थ त्वरितं गतः। आसन्नाउ नियत्ते कालि पहुप्पंति दूरपत्तोवि । अपहुप्पंते तत्तो चिय एगु धरे वोसिरे एगो ॥ ४१६ ॥ तत आसन्नात्सञ्जातकायिकाद्याशङ्को निवर्त्तते, कालो.पहुप्पइ यदि ततो दूरगतोऽपि निवर्त्तते, अथ निवर्तमानस्य कालो न पहुप्पइ 'तत्तोचिअ' तत एव यतो भिक्षार्थ गतस्तत एव व्युत्सृजति, कथम् ?, एकः साधुर्भाजनं धारयति | |एकस्तु व्युत्सृजति कायिकादि । भावासन्नो समणुन्न अन्नओसन्नसड्डवेजघरे । सल्लपरूवणवेजो तत्थेव परोहडे वावि ॥४१७ ॥ अथवा "भावासन्नः' असहिष्णुरत्यन्तं भवति ततः समनोज्ञा यदि तत्र क्षेत्र आसन्ना अन्यस्मिन् प्रतिश्रये ततस्तत्र Jain Education For Personal & Private Use Only MAM.Jahelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy